________________
xxvi
मात्र प्रतौखदक्षजानुस्थितवामपदं
पादोदराकल्पितवामषट्कम् । अपस्मृतेराहितपादमङ्गे
प्रणौमि देवं प्रणिधानवन्तम् ॥ इति 'मङ्गलपद्यमस्ति । ततः अर्थालंकारा निरूप्यन्ते । ननु 'काव्यशोमाहेतुरलंकार' इत्यलंकारसामान्यलक्षणमिति रुद्रटः इति ग्रन्थस्य आरम्भ भवति। वक्ष्यमाणयोः प्राकरणिकयोः विशेषप्रतिपस्यर्थ निषेधाभास आक्षेप.....सर्वस्वकारः । ..... मपि विशेषं वक्तुं वक्ष्यमाणस्य यति प्रति....... इति अपूर्णभागः अन्ते दृश्यते ।
मदरास् अडयार, पुस्तकमाण्डागारे स्थिता एका 'हस्तप्रतिस्तु संपूर्णा कर्गजपत्रमयी ग्रन्थलिपिस्था च । उपोद्धातप्रकरणतः - गुणप्रकरणं यावत् अन्यभागः उपलभ्यते । परं शब्दालङ्कारप्रकरणे केचन भागाः लुप्ताः दोषप्रस्ताश्च विद्यन्ते । मध्ये अर्थालंकारप्रकरणं नास्ति । लुप्तमिति प्रतिभाति ।
ग्रन्थारम्भेसज्जातं स्फुटमञ्जनापरिणमगर्भान्तरालानवं
किश्चिद्वस्तुवरेण्यमस्तु सततं वः श्रेयसे भूयसे । माताण्डग्रसने प्लुति कृतवतो यस्य प्रचण्डात्मनः
तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः॥
1 मङ्गलपद्यमिदं प्रन्थकारस्य स्वकीय पद्यं न । अन्यत्र स्तोत्रे परिदृश्यते । लिपिकारेण
लिखितमिति प्रतिभाति । 2 'Descriptive Catalogue of Sanskrit manuscripts' in the Adyar
library, vol-V, 1951-517, MSS No. 1619.