________________
xxvii
इति मजलं परिदृश्यते। तस्मान्निरूपिता गुणाः । इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण पण्डितसार्वभौमेन विरचिते अलङ्कारराघवे गुणप्रकरणं सम्पूर्णम् इति ग्रन्थपरिसमाप्तिः।
तलावूरुसरस्वतीमहलपुस्तकभाण्डागारे द्वे हस्तप्रती वर्तते । एका 'हस्तप्रतिः देवनागरी लिप्यात्मिका कर्गजपत्रमयी सम्पूर्णाऽस्ति । अत्रापि सञ्जातं स्फुटमञ्जनापरिणमदिति मङ्गलग्यं प्रारम्भे दृश्यते । उपोद्धातप्रकरणतः गुणप्रकरणं यावत् समग्रः ग्रन्थभागः उपलभ्यते। अर्थालंकारभागः सम्पूर्णोऽस्ति । शब्दालङ्कारमागे केचन भागाः दोषपूर्गाः वर्तन्ते । अत्र अर्थालङ्कारप्रकरणेन ग्रन्थपरिसमाप्तिः भवति। गुणप्रकरणादिकं मध्ये वर्तते। ग्रन्थान्त्यः एवमस्ति-' इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे अर्थालङ्कारप्रकरण सम्पूर्णम् ।
अर्थालङ्कारमयं प्रकरणमेतजगत्सु यः पठति । .. रामप्रसादतोऽयं भुवनालङ्कारभावमाप्नोति ॥ वाक्पूजयालकृतिराघवाख्यया
- मदीयया दुष्करयान्यपण्डितैः । सलक्ष्मणोऽयं परिवारवेष्टितः
प्रीणातु रामः सह सीतया सह ॥ इति ।
Descriptive Catalogue-Tanjore, vol-1X, p. 3975