________________
212
अलकारराघवे
तत्तद्दशालोकनजातमूच्छों
रामोऽपि सद्यः प्रययौ विवोधम् ॥१८१ ॥ 'सापराधेषु मनःप्रज्वलनममर्षः। यथासीता त्वद्व्याजनिहृता दशकण्ठचौर्या
व विधा वयमिति स्फुटवाचमुक्त्वा । मन्दोदरी परिचकर्ष पुरोऽस्य वाली
पुत्रो लतामिव गजो विगलत्प्रसूनाम् ॥ १८२ ॥ "हर्षायाकारगोपनमवहित्या।
1 (j) अमर्षः सापगधेषु चेतः प्रज्वलनं मतम् (प्र.रु. र. प्र. ४४) (ii) अधिक्षेपापमानादेः अमर्षोऽभिनिविष्टता ।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ (द. रू. ४ प्र. १७) (iii) अधिक्षेपावमानाः क्रोधोऽमर्ष इतीर्यते । ___ तत्र स्वेदशिरःकम्पावाधोमुख्यविचिन्तने ॥ उगयान्वेषणोत्साहव्यवसायादयः क्रियाः ॥
(र. सु. द्वि. वि. ८३-८४) - (i) हर्षायाकारसंगुप्तिः अवहित्येति कथ्यते । (प्र. रु. र.प्र.४५) (ii) लज्जाद्यैर्वि क्रियागुप्ताववहित्थाङ्गविक्रिया (द. रू.४प्र. २९) (iii) अवहित्थाकारगुप्तिः जैह्मयप्राभवनीतिभिः ।
लज्जासाध्वसदाक्षिण्यप्रागल्भ्यापजयादिभिः ।। अन्यथाकथनं मिथ्याधैर्यमन्यत्र वीक्षणम् । कथाभङ्गादयोऽप्यस्यामनुभावा भवन्स्यमी ।।
(र. सु.द्वि. वि.६६-६७)