________________
204
यथा
'उत्सवादिना प्रसक्तिविशेषो हर्षः ।
यथा
1
कर्षन्ती परितः कटाक्ष करणान् ताम्बूल सक्ताघरा किञ्चिद्विश्लथनीदिका नवमरुल्लोल दुकूलस्तना ।
गण्डव्यापृतमन्दहाससुषमा हेलाञ्चलाद्विया सद्यश्शूर्पणखा स्मरस्य वबले मायेव रामान्तिके ॥ १७१ ॥
SAMARS
रामस्य पाणिग्रहगर्वितापि त्वं मुद्रिके मे कुशलं व्यतानीः ।
युक्तं तवेदं हि सुवर्णजायाः समन्ततस्सन्मणिसंवृतायाः
अलङ्कारराघवे
।। १७२ ।।
1
(i) प्रसत्तिरुत्सवादिभ्यो हर्षः खेदाश्रुकम्पकृत् । (प्र.रु. र प्र. )
(ii) प्रसक्तिरुत्सवादिभ्यो हर्षोऽश्रुस्वेदगद्गदाः ॥
(iii) मनोरथस्य लाभेन सिद्धया योभ्यस्य वस्तुनः । मित्रसङ्गमदेवादिप्रसादादेव कल्पितः ॥ मनःप्रसादो हर्षः स्यादत्र नेत्रास्यफुल्लता । प्रियाभाषणमाषः पुलकानी प्ररोहणम् ॥ वेदोद्गमश्ध हस्तेन हस्तसंपीडनादयः ।
(द. रू. ४ प्र. १४ श्लो)
(र. सु. द्वि. वि. ७६-७८)