________________
200
अलकारराघवे
श्रीराम त्वयि राज्यपालिनि शिवब्रह्मामरेन्द्रादयो नीत्वा दसमुपायनानि सुचिरं स्थित्वा यदर्थं सुराः । त्वदौवारिकमेत्य सान्त्वनगिरा स्वं दैन्यमाचक्षते
त्वत्सन्दर्शनमीदृशं वयममी लप्स्यामहे वा कथम् ॥ १६५ ॥ 'भयदुःखादिना मूर्च्छन मोहः। यथा
इन्द्रारातिविभोः प्रतापविभवादानीतमेतच्छिरो रामस्येति पुरो निगद्य निहितं "माथीखरद्विशिरः। पश्यन्त्या वपुषो विदेहदुहितुः प्राणास्तदा निर्गता विद्युज्जित्ववचोऽवयं कलयितुं नूनं पुनस्सङ्गत्ताः ॥ १६६ ॥
(iii) हृत्तापदुर्गतिवाद्यैः नैश्चित्त्यं हृदि दीनता । ' अत्रानुभावा मालिन्यगात्रस्तम्भादयो मताः ॥
(र. सु. द्वि. वि. ११ श्लो) ' (i) मोहस्तु मूर्छन भीतिदुःखावेशानुचिन्तनः । (प्र. रु. र. प्र.) . (ii) मोहो विचित्तता भीतिदुःखावेशानुचिन्तनैः । ..
तत्राज्ञानप्रमाघातघूर्णनादर्शनादयः ।। (द. रू. प्र४-२६ श्लो) (iii) आपद्धीतिवियोगाद्यैः मोहश्चित्तस्य मूढता । विक्रियास्तत्र विज्ञेया इन्द्रियाणां च शून्यता ।।
(र. सु. 'द्व. वि. ५३ श्लो.) माया-न