________________
196
अलङ्कारराघवे
धृत्वा करेण सीता विनमितवदना जगहे लकेशम् ॥१५९ ॥ 'अनिष्टागमोत्प्रेक्षा शङ्का । यथा
सौमित्रे त्वमुपागतोऽसि विजने हित्वा कथं मैथिलीम् वामादृङ् मम कम्पते तरुगतो घोरं खगः कूजति । दृश्यन्ते हरिणाङ्गनाश्च पुरतो वाष्पाविलप्रेक्षणाः
सीता प्राणिति कश्चिदद्य मुदिता मां यानुयाता वने ॥ १६० ॥ 'परोत्कर्षासहिष्णुत्वमसूया। यथा
1 (i) अनिष्टाभ्यागमोत्प्रेक्षा शहा रोषादिकारणम् । (प्र. रु. र. प्र.) (ii) अनर्थप्रतिभा शहा परक्रौर्यात्स्वदुर्नयात् । कम्पशोषाभिवीक्षादिरत्र वर्णस्वरान्यता ।।
(द. रू. ४-प्र-११ श्लो) (iii) शक्का चौर्यापराधादेः स्वानिष्टोत्प्रेक्षणं मतम् ।
तत्र चेष्टा मुहुः पार्श्वदर्शनं मुखशोषणम् ॥ अवकुण्ठनववर्यकण्ठसादादयोऽपि च । शक्का द्विधेषमात्मोत्था परोत्था चेति भेदतः ॥ स्वकार्य जनिता स्वोत्था प्रायो व्यङ्ग्येयमिङ्गितैः । इङ्गितानि तु पक्ष्मभूतारका दृष्टिविक्रियाः ॥
(२. सु. द्वि. वि. २६-२८) - (i) परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता
(प्र. रु. '. प्र.२३ श्लो)