________________
194
यथा
-
मायामहिना तव रामचन्द्र
विलङ्घितोऽभूल्लवणार्णवोऽयम् ।
सीता श्रसङ्घातभवस्तु सिन्धुः
न मादृशानामपि लङ्घनीयः ॥ १५६ ॥
'गद्गदभाषित्वं वैखर्यम् । यथा
।
रामाधुनेह परलोकनिदानभूतं
रामेति नेत्रयुगलं गिरिसन्दधाना ।
साप्युग्रगद्गदगदप्रतिरुद्धकण्ठा
नो मुक्तिमेति मिथिलेशसुता विचित्रम् ॥ १५७ ।।
अथ व्यभिचारिणां निर्वेदादीनां
अलङ्कारराघवे
स्वरूपमुदाहरणं च प्रदर्श्यते ।
तत्र 'निर्वेदो नाम दुःखेर्ष्यातचबोधादिना निष्फलत्वज्ञानम् ।
1 (i) मतं गद्दभाषित्वं वैस्वर्य प्रमदादिजम् ।
( प्रतापरुद्रीयम् रसप्रकरणम्)
(ii) वैस्वयं सुखदुःखाद्यैस्तत्र स्युर्गदादयः (र. सु-१ वि. ३०६ )
2
(i) दुःखेर्व्यात स्वबोधादेः निर्वेदो निष्फलत्वधीः ।
तत्र चिन्ताश्रुनिश्वासदीनताः सम्भवन्ति च ॥
(प्रातापरूद्रीयम् - रस प्रकरणम् )