________________
182
मलकारराघवे
रामे मन्मथमन्मथे मम पुनश्चतोरथो धावति ॥१३१ ॥ यथा वाकदानु भवदागमस्तव कदा नु सन्दर्शनं .
कदा नु स्व सङ्गमस्तव कदा समालिङ्गनम् । कदा नु कुचमर्दनं तव कपोलयोश्चुम्बनं ।
कदा नु वद त्वदधरामृतपानार्मसुते ॥१३२ ॥ आत्मनः परख वा विकताकृतिवेषसन्दर्शनश्रवणजन्यो मनोविकारो 'हासः।
स पडिधः। "स्मितहसितविहसितोद्धसितापहसितातिहसितमेदात् ।
तत्र 'स्मितं नाम' विकासिनयनं हसनम् । किश्चिलक्ष्यद्विहसितम्।
'विकृतिदर्शनादिजन्यो मनोविकारो हासः
(प्र-रु. स्सप्रकरणम्) ' विकृताकृतिवाग्वेषः आत्मनो वा परस्य वा । हासः स्यात् परिपोषेऽस्य हास्यस्त्रिप्रकृतिः स्मृतः॥
(भावप्रकाशः) स्मितमिह विकसन्नयनं क्रिश्चिल्लक्ष्यद्विज इसितम् । मधुरम्बनं विकसितं साङ्गशिरःकम्पमुद्धसितम् ।। अपहसितं साम्राक्षं विक्षिप्ताङ्गं भवत्यतिहसितम् । द्वे द्वे हसिते चैषां ज्येष्ठे मध्येऽधमे क्रमशः ॥
(भावप्रकाशः)