________________
रसप्रकरणम्
181
म्लेच्छादिगतरसाभासस्यापि विभावायसंपूर्ति रसाभासत्वमस्त्येव ।
नन्वेवं तर्हि तिर्यगादिषु मुख्यरसाभावात् कथं चमत्कार इति चेदुच्यते। शुक्तिरजतं दृष्ट्वा प्रमदाकरणनिर्माणाय प्रमोदमानपुरुष इव तिर्यगादिष्वपि चमत्कारस्सम्भवतीति सिद्धम् । तिर्यगादिषु रसामास इति तत्र स्थायिभावानां यथाक्रममुदाहरणं खरूपं च तत्र आह ॥ विषयस्पृहा रतिः। सम्भोगो नाम यूनोरन्योन्यानन्दजनदर्शनालिझ नादिकर्म। तदुक्तं मावप्रकाशे
'कामोपचारस्सम्भोगः कामस्त्रीपुंसयोस्कुलम् । सुखमानन्दसम्भेदः परस्परविमर्दतः ॥
उपचारस्तदानन्दकारकं कर्म कथ्यते ॥ इति । स्पृहालक्षणमपि तत्रैवोक्तम्- .
आत्मोपभोगकरण स्पृशन्तीप्रियवर्त्मना ।
या जहातीतरान् भोगान् सा स्पृहेत्यभिधीयते ॥ इति यथा
राक्षस्यो हृदि राजहंसदयिता किं मन्यते वायसं किं कण्ठीरवकामिनी घटयितुं क्रोष्टारमुत्कण्ठते । जाता किं जनकान्वये रघुकुलं प्राप्तान्यमालोकये
1 बाध्यत्वमस्त्येव-त ' तत्र संभोगविषय इच्छाविशेषः रतिः ।
(प्रतापरुद्रीयम्-रसप्रकरणम्) " जाता किं-म' प्रतो नास्ति ।