________________
130
हास्य जुगुप्सा शृङ्गारहास्यौ शोकभयानकौ । भयानको रौद्रवीरौ तथा शृङ्गारविस्मयौ ॥
बीभत्सकरुणौ रौद्रशृङ्गारौ च यथाक्रमम् । शृङ्गारादीन् सम्प्रविश्व रसाभासान्वितेनिरे ॥ इति ।
'रसास्तदङ्गरसानुप्रवेशादाभासिनो भवन्ति । शृङ्गारे त्वमपरो विशेषः ॥
'एकत्रैवानुरागश्चेत्तियङ्ग्लेञ्छगतोऽपि वा । योषितो 'बहुसक्तिद्रसाभासत्रिधा मतः ।। इति ।
अलङ्कार राघवे
* नन्विदं तर्हि स्त्रीपुंसयोरे कत्रानुरागे जाते अन्यत्रानुरागप्रागभावेऽपि रसाभासस्यादिति चेन्मैवम् । एकत्रैवेत्यवधारणेन अन्यत्र अनुरागात्यन्ताभाव एव रसाभास इति सूच्यमानत्वात् । ननु तर्हि 'पुंमो बहुनायि कानुरागेऽपि रसाभासस्यादिति चेत् । तथा च दक्षिणनायकानुरागस्यापि - रसाभासत्वप्रसङ्ग इति चेन्मैमम् । दक्षिणनाम कस्य एकस्यामेव अनुरागातिशयात् । तुल्यो ऽनेकत्र दक्षिण इति लक्षणन्तु अनेक नायिकानु वृत्तिमात्रेण तुल्यत्वपरम् । सर्वत्र रसाभासेषु वाध्यत्वमेव रसाभासताप्रयोजकम्
1
1 एवं नवापि रसाइ
2 एकैकं वानुरागश्चत्–त
• बहुशक्तिश्चेत्—त
4 नन्वेवं तर्हित
5 पुंसापि बहु-त