SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 178 कारकज्ञापक वैलक्षण्येन व्यञ्जनध्वनन चर्वण चमत्कार। दिशब्दवाच्यर सगोचरज्ञानविशेषोपयोगित्वादुपपद्यते । तदुक्तं लोचनकारैः विभावादिरत्र न ज्ञापको न कारकः । किन्तु चर्व गोपयोगीति । अत एव विभावादिप्रयोज्यचर्वणादिशब्दज्ञानेन वाच्यज्ञाने प्रतीयमानत्वमेव । रसस्यालौकिकत्वमिति गीयते । सोऽयं रस उत्पद्यत इति केचित् भणन्ति । तच्चिन्त्यम् । तस्य नित्यमित्ययोगात् । न च रसस्य नित्यत्वे मानाभावः । तस्य मानन्दनिरतिशय। मिरामब्रह्मानन्दरूपत्वात् । ब्रह्मानन्दानुभवस्य च 'अजो नित्यश्शाश्वत' 'इस्मादिश्रुतेः नित्यत्वसिद्धेः । न च रसः कदलीफलसुखास्त्रादवत् अन्य एवेति वाच्यम् । अखण्डानन्दानुभवविरोधात् । अतिरिक्तपुखान्तरकल्पनायां गौरवापत्तेश्च । न च वेदाभिमते स्वरूपज्ञानातिरिक्तवृत्तिज्ञानवदतिरिक्त सुखकल्पनमपि युक्तमेवेति वाच्यम् । वृत्तिज्ञानस्य 'कामस्सङ्कल्प' इत्यादिश्रुतिप्रमाणसिद्धत्वेन तत्र 'कल्पनानवतारात् । अतो रसो नित्योऽभिव्यज्यत इति सिद्धम् । 'अतो रसो विभावादिभिरङ्कुरितः कन्दलितः पल्लवित इति व्यपदिश्यते । स चायं रसः स्वरूप संवेदेन सिद्ध इति नात्र 'मानान्तरगवेषणं युक्तम् । 1 नित्यत्वेन उत्पत्ययोगात्-त 2 इत्यादिश्रुतेश्च सिद्धः- म कदलीफलरसास्वादसुखबदन्य एवेति - त 3 अलकार राघवे 4 कल्पनावतारातू-म 5 अत एव रसो प्रमाणान्त-त 6
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy