________________
176
अलङ्कारराघवे
सरसकाव्यश्रवणनिपुणतमनटाभिनयो भयभिन्नप्रयोज्यभाव्यभावकजनास्वाद्यमानरतिप्रकर्षानन्दः शृङ्गारः। तादृशहर्षप्रकर्षानन्दो हासः। तादृशशोकप्रकर्षानन्दः करुणा। तादृशोत्साहप्रकर्षानन्दो वीरः। तादृशक्रोधप्रकर्षानन्दो रौद्रः। तादृशभयप्रकर्षानन्दोभयानकः । तादृशजुगुप्साप्रकर्षानन्दो बीभत्सः । तादृशविस्मयप्रकर्ष नन्दोद्भुतः । तादृशशमप्रकर्षानन्दश्शान्तः।
अत्र सर्वत्र न तत्तदाभासेष्वतिव्याप्तिः। तेषां बाध्यत्वात् । अयं रसस्सामाजिकनिष्ठः। ननु नायकगत एवास्तु रसः । स्थायि. भावस्य तन्निष्ठत्वात्। तत्प्रकर्षरूपत्वात् रसस्येति चेदुच्यते । किं नायक. दृष्टो रसाश्रयो भवति ! किंवा श्रुतः, किंवानुभूतः ! नाद्यः । साक्षाद्दृष्टनायकगतरत्यादेः ब्रीडाजुगुप्मादिकरत्वादानन्दास्वादाभावात्। नापि द्वितीयतृतीयौ। तयोस्तदानीमसद्भावात् । नन्वन्यगतरत्यादिभावनामात्रेण कथं सामाजिकेष्वानन्दास्वाद इति चेदुच्यते। मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतो तत्तद्योषिद्विरहस्य संयमाणत्वेन सामाजिकेष्वानन्दाविर्भावोपपत्तिः। ननु कथं नहिं भावकानाम् अश्रुधाराविर्भाव इति चेन्नैष दोषः । सम्भोगसमये स्त्रीणामघरदशनादौ कृतिमदुःखानुभवसीत्कारादिवदुपपत्तेः । अन्यथा करुणैकफलरामायणादी सामाजिकानां प्रवृत्तिरेव न स्यात् । नन्वन्तरगत्वेन नटगत एवास्तु रस इति चेन्न। तस्यानुकरणमात्रोपक्षीणत्वेन
1 उभयभिनभिनप्रयोज्या-त . उतानुभूत:-त