________________
170
अलङ्कारराघवे
मनुभावयतीत्यनुभाव इत्युच्यते । .. तदुक्तम्
भ्रविक्षेपकटाक्षादिविकारो हृदयस्थितम् । ___ भावं व्यनक्ति यस्सोऽयमनुभाव इतीरितः ।। इति । ___अथ सात्विकभावा निरूप्यन्ते। अभिनयादिमुखेन परगतसुखदुःखभावनायाम् अन्तःकरणस्यात्यन्तानुकूलत्वम् सत्त्वम् । तेन निवृत्ता'भावास्सात्विकाः । तदुक्तम् भवति-विभावादिदर्शनजन्यानुरागसर्वदावस्थायिसञ्चारिधर्मा एव तन्मयीभवनरूपेण स्थायिशब्दामिधेयेन सामाजिकमनसोऽत्यन्तानुकूल्येनावस्थान्तरमापन्नाः स्तम्भादयो नाम सात्विकाभावा भवन्ति। तदुक्तम् रत्नापणकारैः- 'एवञ्च . 1 (i) परस्य सुखदुःखादेरनुभावेन चेतसः।
अत्यन्तेनानुकल्येन येन तद्भावभावनम् ॥ तत् सत्त्वं तेन निर्वृत्ता: सात्त्विका इत्युदीरिताः । अनुभावत्वसामान्ये सत्यप्येषां पृथकया ॥ लक्षणं सत्त्वजत्वाद्धि ते च स्तम्भादयः स्मृताः ।
. (भावप्रकाशः) (ii) सत्त्वजा ये विकारा स्युः स्वीयावीयविभागतः । त एव सात्त्विका भावा इति विद्वद्भिरुच्यते ॥
(भावप्रकाश: प्रथमोऽधिकारः ४-१० पङ्क्ति ) (iii) पृथग्भावा भवन्त्यन्येऽनुभावत्वेऽपि सात्विका । सत्बादेव समुत्पत्तेस्तच्च तद्भाव भावनम् ।।
(दशरूपकम् --प्रकाश ४-४) .. 'एतदुक्तं भवति-त ' (i) स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवण्यवेपथू । । अश्रुवैखखयमित्यष्टौ सात्विकाःपरिकीर्तिताः ।।
. (प्र. रु. रसप्रकरणम ।) (ii) स्तम्भप्र लयरोमाश्वाः स्वेदो वैवर्ण्यवेपथू । अश्रुवस्वर्यमित्यष्टौ
(दशरूपकम् -प्र. -४-५)