________________
रसप्रकरणम्
169
मानतया'वस्तु विभावो भावपोषकदिति। उद्दीपनविभाकोऽपि चतुर्विधः । मालम्बनगुणचेष्टातदलकृति तटस्थभेदात् । आलम्बनगुणो रूपयौवनादिः । तच्चेष्टा हावभावादिकाः. हारनपुरादिकं तदलकृतिः। मलयानिलचन्द्राद्याः तटस्थाः ।
अथ अनुभावस्वरूपं निरूप्यते । कार्यभूतश्शरीरजः कटाक्षादिरनुभावः। अत्र स्वाभाविककाकदृष्टिप्रेरितकटाक्षेऽतिव्याप्तिनिवृत्त्यर्थ शरीरज इति विशेषणम् । तावत्युक्ते निमितान्तरितस्वकटाक्षेऽतिव्याप्तिनिवृत्त्यर्थ कार्यभूत इति । नन्वत्र रसापेक्षया कार्यत्वं विवक्षितम् , किं वा स्थायी. भावापेक्षया ! नाद्यः। अनुभावैश्चति तृतीयया कारणत्वाभिधानादन्योन्याश्रयप्रसङ्गात् । अनुमावे सति रसः रसे सत्यनुमाव इति नेतरः। मावकजनमनोऽवस्थायिनः स्थायीभावात् पूर्वभाविना कामिनीजनकटाक्षादीनां तत्कायवाभावात् इति चेदुच्यते। अत्र स्थायित्वयोग्यनायकाद्याश्रितलौकिकरत्यादिकार्यत्वं विवक्षितम् । तथा च तादृश एव कटाक्षादिः 'काव्याभिनयद्वारा भावकजनमनःप्रतिबिम्बिततया सरसहृदयस्थितरत्यादिभाव
1 यत्र विभावो-(प्र. रु. रत्नापणव्याख्याने रसप्रकरणे विभावनिरूपणसन्दर्भ) ' आलम्बनगुणश्चैवं तच्चेष्टा तदलकृतिः । तटस्थश्चेति विज्ञेयश्चतुर्थोद्दीपनक्रमः ॥ आलम्बनगुणो रूपयौवनादिरुदाहृतः। तच्चेष्टा यौवनोद्भूतहावभावादिका मताः । नू पुराङ्गदहारादि तदलकरणं मतम् ॥ मलयानिलचन्द्राद्याः तटस्थाः परिकीर्तिताः ।
. -(शृङ्गारतिककम्:) (i) कायभूतोऽनुभावः स्यात् कटाक्षादिः शरीरजः (प्र. रु. र. प्र) (ii) अनुभावो विकारस्तु भावसंसूचनात्मकः (द. रू. ४ प्रकाशः) • कार्यामिनयद्वारा-त