________________
168
अलङ्कारराघवे
सर्वोऽप्यानन्दो ब्रह्मानन्द एवेति वेदान्तिनोऽपि वदन्ति। अत एव एवमेष्वन्तावाङ्गीकारे सर्वत्र एकरसस्य प्रसङ्ग, इति 'रत्नापणकारवचनमपि निरस्तम्। अतस्सिद्धं नवैव रसा इति । वत्सलादिरसान्तराणाम् अन्त भर्भावस्तु प्रन्थान्तरेष्वेव स्पष्ट इत्यलं विस्तरेण ।
स च रसः सरसकाव्यसगृहीतया निपुणनटाभिनयप्रदर्शितया वा भावुकपुरुषभाव्यमानया वा विभावानुभावसात्त्विकव्यभिचारिभावात्मकसामग्र्या स्वयमावेद्यमानो रसशब्दाभिधेयो भवति ।
तत्र विभावस्वरूपं निरूप्यते । 'रसोत्पादनकारणं विभावः। स द्विविषः । बालम्बनविभावउद्दीपनविमावश्चेति । रससमवायिकारणमालम्बनविभावः। अन्यत्कारणजातमुद्दीपनविभावः ।
ननु सामाजिकाश्रयरस प्रति रामादयः कथमालम्बनकारणम् । विशिष्ट. 'कालादि कथमुद्दीपनकारणमिति चेदुच्यते । रामादिनायकविशिष्टदेशकालादि रूपमुभयमपि काव्यनाटकादिमुखेन सामाजिकान्तःकरणप्रतिबिम्बतया समाजिकनिष्ठमालम्बनविभावउद्दीपनविभावश्चति कथ्यते। तदुक्तम् । 'ज्ञाय.
1 उत्साहस्य अहमेवंविध इत्येवंप्राणत्वेन अभिमानमयो वीरःसहि कारप्रशमैकरूपः
शान्तः। एवमनयोरत्यन्तवैजात्यात । तर्हि दय वीरेऽन्तर्भाव इति चेन । तस्याप्येवंविधत्वे शान्तस्यैव नामान्तरकरणमनैवविधत्वे वीरप्रभेद एवेति । एवमप्यन्तर्भावाङ्गीकारे सर्वत्र करसस्य प्रसङ्ग:
(प्रतापरुद्रीयरत्नापणव्याख्याने-रसप्रकरणे शमनिरूपणावसरे) 'विभावः कथ्यते तत्र रसोत्पादनकारणम् मालम्बनोद्दीपनात्मा स द्विधा परि
कीर्त्यते ॥ (प्रतापरुद्गीये रसप्रकरैगम् ।) ii) ज्ञायमानतया स्त्र विभावो भावषोषकृत् । आलम्बनोद्दीपनत्वप्रभेदेन स च द्विधा।
(दशरूपकम-४ प्रकाशः-२ श्लोक) 'कालादि वा कथम्-त