________________
रसप्रकरणम्
167
एवमेवेति न कोऽपि दोषः । न च रसानन्दब्रह्मानन्दयोरत्यन्तभेदश्शक्यशङ्कः । उभयोर्निर्भरानन्दरूपवत्वाविशेषेण तथावस्तुमयुक्तत्वात् । तदुक्तम्
पाठादथ ध्रुवा गानात् ततस्सम्पूरितो रसः । तथास्वादभरैकाग्रो हृद्यं तन्मुखःक्षमः ।
ततो निर्विषयस्यास्य स्वरूपावस्थितो बीजः मृज्यते हादनिष्यन्दो येन तुष्यन्ति ये गिन इति ।
न चैवं रसाद्वैतप्रसङ्गः। रसवेदान्तावादिनामिष्टापत्तः । शृङ्गा. रादिभेदव्यवहारस्तु औपाधिक एवेति न तात्त्विकः। तथा चानुमानम्'रसः अभिन्नो भवितुमर्हति। उपाधिभेदमन्तरेण विभाव्यमानभेदत्वात् । गगनवदिति। ननु रसो भिन्नो भवितुमर्हति । भिन्नदेवताकत्वात्। भिन्नदेवताकर्मवत्। न चासिद्धिः। शृङ्गारादीनां विष्ण्वादिदेवताकत्वस्य शिङ्गभूपालादिभिः प्रतिपादितत्वादिति चेन्न। भिन्नदेवतास्वरूपस्योपाधितस्वात्। न च साधनव्यापकता। शृङ्गारस्सखिमूर्तिमानिव मधौ मुग्धो हरिः क्रीडति' इत्यादि अलङ्कारादेव तयोर्भेदप्रतिपादनात्। न च अत्र अनन्वया. लङ्कारशङ्का पतति । द्वितीयसब्रह्मचारिवृत्तेरभावात् । यद्वा अभिन्नद्रव्यकत्वमुपाधिः। अतो न सत्प्रतिपक्षितोरभेदप्रयोग इति सिद्धम्। अत एव शृङ्गाररस एक एवेति शृङ्गारप्रकाशिकाकारवचनं प्रत्युक्तम् । शृङ्गाराद्वैतस्यायुक्तत्वात्। तत्राहि-किं रसान्तराणां शृङ्गारित्वेन प्रतीतेः शृङ्गाराद्वैतं किं वा, निर्भरानन्दरूपत्वात् । नाद्यः। तथा तेषाम् अप्रतीतेः । नेतरः । सामान्नेन रसाद्वैतस्यैव युक्तत्वात्। अत एव सुषुप्तिजागरादौ प्रतीयमानः
1 भाव्यमानत्वात् गगनवदिति-त