SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 166 अलंकारराषवे निर्वेद एव 'शान्तस्य स्थायीभाव इति मुनिनाप्यङ्गीकृतत्वात। ननु रससामग्रीवैधुर्यान्न शान्तो रस इति चेतु-परपुरुषसेगवेदान्तविचाराद्यनुभाव श्रवणमनननिदिध्यासनापरपर्यायमतिस्मृतिचिन्तादिव्यभिचारिभावादिसामग्र्याः सम्भवात्। ननु रागिणामश्लान्यत्वात् न शान्तो रस इति चेन्न। तर्हि वीतरागाणामलाव्यत्वात् गृकारादिरपि न रस इति तुल्यम्। सर्वश्लान्यत्वं तु न शान्तरसस्यापि सम्भवति। वीतसगेषु तदादरदर्शनात् । ननु तथापि पुरुषार्थत्वाभावात् न शान्तो रस इति चेन्न । चतुर्थ पुरुषार्थस्य *मुक्तस्सम्भवात् । निरपायरसब्रह्मानन्दरूपप्रकर्षावाप्तिरेव मुक्तिशनार्थः । तथा च निरपायब्रह्मानन्दाविर्मावरूपा मुक्तिश्शान्तरसानन्दैकलोलीमावं प्रतिपनापि तत्साध्येति गीयते । यथा काभ्यापूर्वकलोलीमावमापन्नोऽपि स्वर्ग: साध्य इति गीयते । 1 तस्य-त 'निर्वेदस्य अमङ्गलप्रायस्य प्रथमम् अनुपादेयत्वेऽपि उपादानं, व्यभिचारित्वेऽपि स्थायित्वाऽभिधानार्थम् । तेन-निदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः।। (काव्यप्रकाश-४ उल्लासः ३५ श्लो) 'न रससापि-म (i) चतुर्थपुरुषार्थस्य मुक्तेरेतदेकसान्यत्वात् । तदुक्तं भावप्रकाशे'सर्वप्रकार: सम्पूर्णकाम: संतुष्टमानमः। .' प्राप्नोति मुक्ति चस्मे शान्तेनैव रसेन सः॥ : इति । लोचने चोकम्-'मोक्षफलत्वेन चायं परमपुरुषार्थनिन्नत्वात् सर्वरसेभ्यः प्रधानतमः स चायं शन्तरसः इति । (प्रतापरुरीयस्य-रत्नापणव्याख्याने. रमप्रकरणे शान्तरसस्थायिन: शान्तस्य निरूपणाक्सरे) । ii) तदेवमनुक्रमणी निर्दिष्टेन वाक्येन भगवद्वयतिरेकिण: सर्वस्यान्यस्यानित्यता प्रकाशयतो मोक्षलक्षण एवेकः परः पुरुषार्थः शास्त्रनये कोव्यनये च तृष्णाक्षय. सुखरिपोपलक्षण शान्तो रसो महाभारतस्य अङ्गित्वेन विवक्षित इति सुप्रति पादितम् ।। (ध्वन्यालोकः-४ उद्योतः) 'मुक्ते-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy