SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 165 किं वा उक्तेष्वेवान्तर्भावात् ! नायः। शान्तरसस्य निर्भरानन्दत्वात् । नेतरः। तस्य कुत्राप्यनन्तर्भावात् । तथा हि.. न तावत्तस्य शृङ्गारेऽन्तर्भावः । अप्रसक्तत्वात् । .. ननु त्रिविधो वीरः। दानवीरो धर्मवीरो युद्धवीरश्चति । तत्र शान्तो धर्मवीर इति तत्रैव तस्यान्तर्भाव इति चेदुच्चते। अहमेवविध इति उत्साहापरपर्यायाभिमानमयो वीरः। सर्वाहारप्रशमैकरूपश्शान्त इति कथं तत्र तस्यान्तर्भावः। उभयोरत्यन्तजात्यात। दयावीरो धर्मवीर एवेति न तत्राप्यन्तर्भावश्शक्यरशङ्कः । रसान्तरेषु नान्तभावशङ्कव उन्मिपति । ननु मुनिना अपरिगणितस्थात् शान्तो न रस इति चेन्मैवम् । 1 शान्तश्च तृष्णाक्षयसुखस्य परिपोषः तल्लक्षणो रसः प्रतीयत एव । तथा चोक्तम् यच्च कामसुख लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ।। यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावता असौ अलोकसामान्य. महानुभावचित्तवृत्तिविशेषवत् प्रतिक्षेप्तुं शक्यः-वन्यालोके-तृतीयोद्योतः . नन्वेवं दयावीरो धर्मवीरो दानवीरो वा नासौ कक्षित् । शान्तस्येवेदं नामान्तरकरणम् । तथा च मुल्ने:-दानवीरं धर्मवीरं युद्धवीरं तथैव च। दयावीरमपि प्राह ब्रह्मा. त्रिविधसंमतम्। इत्यागमपुरःपरं त्र्यैविध्यमेव अभ्यधात् ।। (ध्वन्यालोकलोचने-तृतीयोद्योते शान्तरसनिरूपणावसरे) 'वीरे च तस्य अन्तर्भावः कर्नु युक्तः। तस्याभिमानमयत्वेन. म्यवस्थापनात् । , अस्य च अहंकारप्रशमैकरूपतया स्थितेः। तयोश्चैवविधविशेषसद्भावेऽपि यद्यैक्य परिकल्प्यते तद्वीररौद्योपि तथा: प्रसङ्गः। दयावीरादीनां च चित्तवृत्तिविशेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम् इतरथा तु वी रप्रमेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः । तदेवमस्ति शान्तरसः ।। (ध्वन्योलोकः ३ उद्योतः)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy