________________
162
अलङ्कारराघवे
सम्भवद्विभावादिभिर्भावकहृदये खादुतां प्रापितो बाध्यत्वानधिकरणमानन्दो रस इति लक्षणनिष्कर्षः।
अत्र नान्यतरासिद्धिः। उत्पत्त्यादिभिरपि रसास्वादस्य अङ्गीकृतत्वात साक्षात् क्रियमाणैरसाक्षात्कार नीयमानैरित्यर्थः। तेव नासम्भवदोष इति बोध्यम्। नेदं लौकिकरसेऽतिव्याप्तम्। तस्य भावकजनास्वाद्यमानत्वाभावात् । न च रसाभासेऽतिव्याप्तिः। तस्य बाध्यत्वात् । सरसकाव्यश्रवण योज्यरसेऽव्याप्तिवारणाय काव्यश्रवणेति। "आभासे काव्येनानन्दास्वादनासम्भवात् । तदर्थ सरसेति। काव्याभिनयप्रयोज्यरसयोरुभयोः प्रयोज्यत्वात् असम्भवनिवृत्त्यर्थम् उभयभिन्नभिन्नति ।
ननु ब्रह्मानन्दं किं न रसः ! किं वा रसः? नाद्यः। 'रसो वै सा' इतिः श्रुतिविरोधात् ।
शान्तरसप्रकर्षरूपत्वेन रसत्वानपायाच्य। न च ब्रह्मानन्दो रसफलं न स्वयं रस इति वाच्यम् । स्वर्गापूर्वयोरिव शान्तरसब्रह्मानन्दयो रेकलोली. भावात् । द्वितीये तत्राव्याप्तिः । अस्य काव्याभिनयान्यतरप्रयोज्यत्वाभादादिति चेन्मैवम्। ब्रह्मानन्दम्यापि शान्तरसप्रधानकाव्यश्रवणप्रयोज्यत्वात् तत्प्रधानाभिनयप्रयोज्यत्वाच्च। ननु तर्हि ब्रह्मानन्दकामिना सरसकाव्यश्रवणादावेव प्रवृत्तिस्यादिति चेत् उच्यते। प्रवर्तन्त एव तत्र सरसा ब्रह्मानन्दकामिनः वीररसास्तु न .प्रवर्तन्ते। नैतावता कोऽपि दोषः । न च वेदान्तेषु न प्रवृत्तिम्स्यादिति वाच्यम् । वेदान्तेषु प्रवर्तमानस्य पुराणादौ
1 प्रयोज्य-त 'आभासकाव्येन-त . रेकतोविभावात्-त