________________
160
अलकारराघवे
भावान्तरबाधितभावान्तरमेव रसाभास इति वाच्यम्। विभावाद्युल्लसितचमत्कारात प्रागपि भावान्तरस्य भावान्तरबाधसम्भवात रसाभासव्यवहारप्रसङ्गात्। ततः सामग्रीपदादानदानयोरसम्भवात् अतिव्याप्तिदोषतादवस्थ्यात दुर्वारम् । किञ्च विभावादिविशेषणोपयोगमपि न पश्यामः । ननु चूतकदलीफलास्वादनजन्यानन्दादावतिव्याप्तिनिवृत्तये विमावादिविशेषणं देयम्। तस्य तदसमुल्लसितत्वादिति चेन्न । रत्याढिनवविधभावपरेण भावशब्देनैव तस्यापि व्यावर्तित्वात्। भावशब्दस्य भावमात्रपरत्वाङ्गीरेका लक्षणस्यासम्भवदोषप्रसङ्गः । भावमात्रस्यापि विभावादिभिरानन्दसंविद्रूपाव. स्थानापादनात् । न च तादृशसुखमपि रतिरेवेति न तेन तद्व्यावृत्तिरिति वाच्यम् । सम्भोगविषयेच्छाविशेषोरतिरिति 'आलङ्कारि......करे रतिलक्षणकथनात् । किञ्च स्थायिपदं व्यर्थम् । न च निर्वेदादिसञ्चारिभावे अतिव्याप्तिवारणाय तदिति शक्यम् । तस्य निर्मरानन्दसविद्रूपत्वाभावात । न च प्रागुक्तसुखेऽतिन्याप्तिवारणाय तत् । प्रागुक्तयुक्तेरेव तत्र तदलमात् । तरथ विभावाद्यसमुल्लसितत्वाच्च । एतेन
'विभावैरनुभावश्च सात्विकैर्व्यभिचारिभिः ।
आनीयम्मान; स्वादुत्वं स्थायीभावोरसःस्मृत । इति लक्षणं निरस्तम् ।
यदपि तस्यैव लक्षणान्तरम् । रसतेः स्वादनार्थत्वात रस्यते इति ते
। मध्ये—'त्रुटितः' मातृकायाम् । २ दशरूपककारलक्षणम् ।
(द. रू. ४ प्रकाश श्लो-१
.