SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ रसप्रकरणम् 159 पाद्यमानः स्थायीभावो रस इति भातवचनार्थः। तदपि न युक्तम् । निष्पत्तिशब्देन उत्पतिविवक्षायां व्यक्तिवादिनं प्रत्यन्यतरासिद्धेः। व्यक्ति. विवक्षायाम् उत्पत्तिवादिनं प्रत्यन्यतरासिद्धः । एवं 'भुक्तिविवक्षायामपि इतरभेदसाधनेऽन्यतरासिर्द्धिद्रष्टव्या। एतेन लोल्लटादिभरतव्याख्यानमपि निरस्तं बोध्यम्। विद्यानाथलक्षणेऽपि सामग्रीपदं व्यर्थम् । उपयोगाभावात्। न च रसाभासेऽतिव्याप्तिनिरासार्थ तदिति शश्यम्। प्रागुक्तदूषणात्। ननु तिर्यम्लेच्छादावारोपेण "मुख्यरसाभावात् समुल्लसितत्वापर. पर्यायानन्दसंविद्रूपावस्थारूपचमत्काराभावादेव रसाभासे नातिव्याप्तिरिति नोक्तदृषणापत्तिरिति चेन्मैवम्। आरोपितशुक्तिरजतादौ प्रमोदातिशयवद्रसारोपस्थलेऽपि चमत्कारसम्भवात् । अन्यथा तिर्यगादीनां निरातकप्रवृत्यभावप्रसन्नात् । ननु तिर्यगादौ भेदामहादेव प्रवृत्तिरिति चेन्न । आरोपितरसो वा बाधितरसो वा रसाभास इत्यङ्गीकारात् रसज्ञाने तदामासज्ञानं तज्ज्ञाने च रसज्ञानमित्यन्योन्याश्रयात। ननु भावान्तरबाधितस्य भावान्तरमेव लोकोत्तरनायकादावपि तत एव प्रवृत्तिसम्भवात् । चमत्काराभावप्रसङ्गात् । अनुभवापलापस्तु उभयत्रापि समानः। ननु मास्तु सामग्री पदम् । न च रसाभासेऽतिव्याप्तिः। तद्व्यतिरिक्तत्वे सति इति विशेषणा. दिति चेन्नः आरोपितरसो वा बाधितरसो वा रसभास इत्यङ्गीकारात् रसज्ञाने तदाभासज्ञानं तज्ज्ञाने च रसज्ञानमित्यन्योन्याश्रयप्रंसनात्। न च 1 भुक्त्या विवक्षायामपि-त ' मुख्यरसाभावात् समुल्लसितत्व-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy