SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 158 चमत्कारी शृङ्गारादिको रसोऽभिधीयत इति विद्याधरः । विभा वानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति भरतः । "विभावानु भावसात्त्विकव्यभिचारिसामग्रीसमुल्लसितः स्थायीभावो रस' इति विद्यानाथः । तत्र न तावत काव्यप्रकाशिका का रलक्षणं युक्तम् । रसा. भासेऽतिव्याप्तेः । ननु समत्रैरिति विशेषणं " नीयते तर्हि म्लेच्छादिगतरसाभासादौ विभावादिपरिपूर्तेरभावान्नातिव्याप्तिरिति चेन्मैवम् | लक्षणस्य असम्भवप्रसङ्गात् । मलयानिलचन्द्र 'कोकिल वसन्ता दितटस्थ विभावादीनामनन्तत्वेन तस्मिन्नपि देशे काले च असम्भवात् । ननु सम्भवद्विभावादयः समग्रशब्दार्था इति चेर्हि रसाभासेऽतिव्याप्तिस्तदवस्थैव। तत्रापि सम्भवद्विमावादिपूर्तिसम्भवात् । अत एव न साहित्य चिन्तामणिकारलक्षणं युक्तम् । नापि शिवभूपालीयं लक्षणं युक्तम् । " काव्यप्रवण योज्य र सेऽतिव्याप्तेः । नापि विद्याधरलक्षणं युक्तम् । तत्र सर्वेषां लक्षणानुप्रवेशे विशेषणवैयर्थ्यात् । विभावानुभावसात्विकव्यभिचारिभिस्समुल्लसन् स्थायीभावो रस इत्येव लक्षणे मिवक्षिते प्रागुक्तदूषणानतिवृत्तिः । विभावानुभावव्यभिचारि 'संयोगान्नि 1 विधीयत इति - त ' दीयते - त तथा च-त • कोकिलरुतवसन्तादि 3 5 वा-त -त अलङ्कारराघवे ● काव्यप्रकाशकारेण प्रयोज्यरसे अव्याप्तेः - त 7 संयोगनिष्पाद्यमानः—त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy