________________
रसप्रकरणम्
157
एते च स्थायिनः 'स्वैःस्वैःविभावैर्व्यभिचारिमिः । सात्विकैरनुभावैश्च नटाभिनययोगतः ॥ साक्षात्कारमिवा गीतैः प्रापितास्वादुरूपताम् ।
सामाजिकानां 'मनसि प्रयान्ति रसरूपताम् ॥ इति रसार्णवसुधाकरः।
विभावैललानादिभिरालम्बनकारणैरङ्कुरितः किसलितकरादिभिरुद्दीपनकारणैः कन्दलितोऽनुभावैः स्मितादिभिः प्रतीतिपद्धतिमध्यारोपितो व्यभिचारिभिः चिन्तादिभिः पल्लवितः कदापि नानुभूतोऽभिधानेन कर्णातिथीकृतो तात्पर्येण नालक्षीकृतो लक्षणया न स्वविषयं प्राप्तः प्रत्यक्षेण नात्मनः “समानमानीतोऽनुमानेनापरिशीलितसरणिः स्मरणेन नाक्रान्तः कार्यतया न ज्ञातः ज्ञाप्यतयाविगलितवेद्यान्तरत्वेन परिमितावनधीती ध्वननाभिधानाभिनवव्यापारपरिरम्भणनिर्भरतयाऽनुकार्यानुकर्तगतत्वपरिहारेण सामाजिकानां वासनात्मतया स्थितःस्थायी रत्यादिको भाव एव विभावादिजीवितावधिः पानकरसन्यायेन चळमाणः चळमाणतैकप्राणःसमुल्लसन् 'ब्रह्मास्वादसब्रह्मचारी लोकोत्तर
1 तें: तैविभावैः-म . हृदये-म • शीतकर दिभिरुद्दीपनकारणैः कन्दलितः-त • सीमानमानीतोऽनुमानेन-त
ब्रह्मानन्दास्वादसब्रह्मचारितया-म