________________
156
धीराद्यतिनीचेषु मागाधी विनियुज्यते । रक्षः पिशाचनीचेषु पैशाची द्वितयं भवेत् ॥ अपभ्रंशस्तु चण्डालयवनादिषु युज्यते । नाटकादावपभ्रंशविन्यासस्यासहिष्णवः ।। अन्ये चण्डालादीनां मागध्यादीन् प्रयुञ्जते । सर्वेषां कारणवशान कार्यो भाषाव्यतिक्रमः ॥ माहात्म्यस्य परिभ्रंशो मदस्यातिशयस्तथा । प्रच्छादनश्च विभ्रान्तिं यथा लिखितवाचनम् ॥ कदाचिदनुवादश्च कारणानि 'प्रचक्षते ॥
अथ काव्यश्रवणरूषकोऽभिनयप्रयोज्यात्मानन्दरूपो रसो निरूप्यते ।
ननु – कारणान्यथ कार्याणि सहकारीणि यानि च ।
-
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः । विभावा अनुभावास्तत्कथ्यन्ते व्यभिचारिणः । व्यक्तस्स तैर्विभावाद्यैः स्थायीभावोरसः स्मृतः ।। इति काव्यप्रकाशिकाकारः ।
व्यक्तस्सामाजिकानां यो वासनात्मतया स्थितः । स स्थायीभावोरत्यादिरास्ख । द्यत्वाद्रसस्स्मृतः ।।
इति साहित्यचिन्तामणिकारः ।
अलङ्कारराघवे
1 प्रचक्षते इति - त