________________
154
द्वायक निर्वर्तनमुक्तिप्रत्युक्तिर्वा वाक्केलिः । स्पर्धया अन्योन्यवाक्याधिक्यमविलम् | सहसोदितं प्रस्तुतविरोधि गण्डम् । रसवशादुक्तस्य अन्यथा व्याख्यानभवस्यन्दितम् । सोपहासनिगूढार्थ प्रहेलिका नालिका । असम्बन्धकथाप्रायः प्रलापः । अन्यार्थ हास्यलोभकरं वचनं व्याहारः । दोषा 'गुणत्वप्रतिपादनं मृदवम् । एतेषां मध्ये यथासम्भवं कानिचित्
प्रस्तावनायां प्रयोज्यानि ।
अलङ्कारराघवे
अथ सर्वरूपकोपकारकत्वात् पूर्वरङ्गस्वरूपं निरूप्यते । 'पूर्वरङ्गोनाम नाटक कर्तव्यः परिपन्थी कर्मविशेषः । तत्र नान्द्यवश्यं - प्रयोक्तव्या । तदुक्तं बदरायणेन
यद्यप्यङ्गानि भूयांसि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ।। इति ।
नान्दी नाम नाटकादिरूपकाणाम् आदौ विहितं पद्यम् । तत्र नाटकादिनान्द्यामर्थत शब्दतो " वाक्यार्थस्सूचनीयः । तत्र अष्टद्वादशाष्टादश पदानि द्वाविंशतिपदानि वा प्रयोक्तव्यानि । नान्द्यां पदा नियमो नेति केचित् ।
1 गुणप्रतिपादनम्-त
3
यन्न व्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स कीर्तितः ॥
( प्रतापरुद्रीयस्य रत्नापणव्याख्याने नाटकप्रकरणे नान्दीस्वरूप निरूपणावसरे पूर्व रङ्गस्वरूपम्)
3 वा काव्यार्थः सूचनयः—त