SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नाट्यप्रकरणम् 153 पात्रप्रवेशः 'प्रयोगातिशयः। आमुखं भारतीवृत्तेरङ्गम् । पुरुषविशेषप्रयोज्यः काव्यार्थमूचकः संस्कृतप्रायो वाग्व्यापारी भारतीवृत्तिः । सेयं कश्चिदृतुमाश्रित्य प्रयोज्या। (तस्यैव) प्ररोचना वीथी प्रहसनामुखानि चास्या मङ्गानि । प्रस्तुतार्थप्रशंसनेन श्रोतां प्रवृत्युन्मुखी. करण प्ररोचना। वीथ्यङ्गानामप्यामुखाङ्गत्वात् तान्यपि निरूप्यन्ते । त्रयोदश वीथ्यङ्गानि । उद्वात्यकावलगितप्रपञ्चत्रिगतच्छलवाक्केल्यधिबलगण्डावस्यन्दितनालिकासत्प्रलापव्याहारमृदवानि । ___ तत्र गूढार्थपर्यायमालाप्रश्नोत्तरमाला वा उद्घात्यकम् । अन्य. कार्यच्छद्मना अन्यकार्यकरणमन्यत्प्रसङ्गात् प्रकृतकार्यसिद्धिर्वा अक्लगितम् । असद्भूतं मिथस्स्तोत्रं प्रपञ्चः। पूर्वरङ्गे नटीभिः साम्यादनेकार्थयोजनं त्रिगतम् । प्रियसदृशैरपि प्रियैर्वाक्यैर्विलोभनं छलनम् । साक्षा 1 एषोऽयमित्युपक्षेगात् सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः।।। (प्रतापरुद्रीये-नाटकप्रकरणे-२९) 2 भारती संस्कृतप्रायो वारण्यापारो नराश्रयः । भेदैः प्ररोचनायुक्तैः वीथीप्रहसनामुखैः ॥ (दशरूपकम् , प्रकाश ३ श्लो-५) • अङ्गान्यस्याश्च चत्वारि भरतेनाबभाषिरे । प्ररोचनामुखे चैव वीथी प्रहसने इति ॥ (रसार्णवसुधाकरः ३ विलासे-१४०) • नटादिभिः-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy