SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 152 अलङ्कारराघवे 'अङ्को नाम साक्षानिर्दिश्यमाननायकव्यापारत्वे सति बिन्दुव्यक्त्यलङ्कृतत्वे सति बहुविधावान्तरप्रयोजनकथाविशेषरसानामाश्रयः । अङ्के दूरगमनभययुद्धराज्यदेशादिविप्लवसंरोधभोजनस्नानसुरतादीनि प्रत्यक्षतो न निर्दिष्टव्यानि। __अथामुखं निरूप्यते। सूत्रधारस्य नटीमारिषविदूषकेषु केनापि सह चित्रोक्तिभिः खकार्यप्रस्तुताक्षेप कमामुखम् । आमुखं प्रस्तावनेति पर्यायः। केचिदामुखविशेषः प्रस्तावनेत्याहुः । ___ अन्ये तु-प्रस्तावनाविशेष एव आमुखम् इत्याहुः। तस्य त्रीण्यङ्गानि कथोद्धातः प्रवर्तकं प्रयोगातिशयश्चेति । तत्र सूत्रधारस्य वाक्यमर्थ वा गृहीत्वा पात्रप्रवेशः 'कथोद्धातः। प्रवेशितपात्रस्य प्रकृतगुणवर्णनं "प्रवर्तकम् । सूत्रधारस्य एषोऽयमिति निर्देशानन्तरं 1 प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः। अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ (प्र. रु. ना. प्र. २४) . सूत्रधार नटी ब्रूते म रिष वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥ प्रस्तावना वा- (प्रतापरुद्रीये नाटकप्रकरणे-२५-२६) अर्थ गृहित्वा-म • स्वेतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत् पात्रं कथोद्धातो द्विधव सः ।। (प्रतापदीये नाटकप्रकरणे-२७) । प्रस्तूयमानकालस्य गुणवर्णनया स्वतः। प्रविशेत् सूचितं पात्रं यत्र तत् स्यात् प्रवर्तकम् ।। (प्रतापरुद्रीये नाटकप्रकरणे-२८)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy