SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ नाट्यप्रकरणम् सूच्यस्य सूचनाक्रमः पञ्चविधः विष्कम्भचूलिकाङ्कास्यप्रवेशाङ्कावतारणैः । (१) तत्र भूतभाविकथांशानां निदर्शकः सङ्क्षेपार्थो मध्यपात्रप्रयोजितो 'विष्कम्भः । स द्विविधः शुद्धस्सङ्कीर्णश्चेति । शुद्धः संस्कृतप्रायः । संस्कृतप्राकृतमिश्रः सङ्कीर्णः । (२) यवनिकान्तर्व - तिपात्रैरर्थ चनं 'चलिका । सा द्विविधा चूलिकाखण्डचूलिका चेति । चलिकाङ्कादावङ्कमध्ये च प्रयोज्या । तत्र प्रवेशनिर्गमौ स्तः । खण्डलिकत्वङ्कादावेव प्रयोज्या । तत्र प्रवेश निर्गमौ न स्तः । विस्तरस्तु रसा वसुधाकरे द्रष्टव्यः । (३) अङ्कान्तपात्रैरुत्तराङ्कार्थमूचन' मङ्कास्यम् । (४) भूतभाविकथांश निदर्शकत्वे सति नीचपात्रप्रयोजितः प्रवेशकः । "अङ्कः नाद्यङ्के युक्तः । (५) यत्रोत्तराङ्कार्थः पूर्वार्थानुषङ्गेणासूचिताङ्क पात्र एव प्रवर्तते सोऽङ्कावतारः । अङ्केन यद्दृश्यते तद्दृश्येतिवृत्तम् । 1 वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । सङ्क्षेपार्थस्तु विष्कम्भो माध्यपात्रप्रयोजितः ॥ 2 अन्तर्यवनिकासंस्थै; चूलिकार्थस्य सूचना (प्र. रु. ना. प्र. २०) 3 न तत्र 4 अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचना (प्र. रु. ना. प्र. २१ ) " वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । प्रेवेशस्तु नाऽङ्के नीचपात्र प्रयोजितः ।। 6. अयं नाद्यङ्के – त ( प्रतापरुदीये - नाटकप्रकरणे - १९). 7 यत्र स्यादुत्तरार्थाङ्कः पूर्वार्थानुसंगत: । असूचित कर त्रं तदङ्कावतरणं मतम् ॥ 151 (प्र.रु. ना. प्र. २२) (प्र.रु. ना. प्र. २३)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy