________________
नाट्यप्रकरणम्
(६) अथ गर्भसन्धिः
दृष्टष्टवीजान्वेषणं गर्भसन्धिः । तस्य पताकाप्रात्याशानुगुण्येन द्वादशाङ्गानि प्रयोक्तव्यानि । * पताकास्वरूपं प्रागेव निरूपितम् । 'उपायापायशङ्कया कार्यसम्भवः प्रात्याशा' । द्वादशाङ्गानि -अभूताहरणमार्गरूपोदाहरण क्रमसङ्ग्रहोऽनुमानतोटका धिब लोद्वेगसंभ्रमाक्षेपाः । 'अत्र प्रकृतोपयोगि छद्माचरणम् अभूताहरणम् । तच्चानुकीर्तनं मार्गः । वितर्कप्रतिपादकवाक्यं रूपम् । प्रस्तुतोत्कर्षाभिधानमुदाहृतिः । सञ्चितार्थप्राप्तिः क्रमः । प्रस्तुतोपयोगिसामदानवाक्यं संग्रहः । 'लिङ्गादग्रहणमनुमानम् | रोषसंभ्रमवचनं तोटकम् । इष्टजनातिसन्धानमधिबलम् । अपकारिजनोदय भयमुद्वेगः । शङ्कात्रासौ सम्भ्रमः । इष्टार्थोपायानुसरणमाक्षेपः । तत्र अभूताहरणमार्गवोटकाबलाक्षेपाणी प्राधान्यम् ।
( ४ ) अथ विमर्शसन्धिः
आवश्यकता येनकेनचिद्धेतुना गर्भसन्धौ । प्रसिद्ध बीजावमर्शनं विमर्शसन्धिः ।
तस्य प्रकरीनियतात्यो रानुगुण्येन त्रयोदशाङ्गानि प्रयोक्तव्यानि ।
10*
* प्रतिपाद्य कथाङ्ग स्यात् पताकाव्यापिनी कथा (प्र. रु. ना. प्र) 1 तत्र-त
147
1 लिङ्गादभ्यूहनमनुमानम् —त
• अपकारिजनाद्भयमुद्वेगः:-त