________________
146
अलङ्कारराघवे
(२) अथ प्रतेमुखसन्धिः
लक्ष्यालक्ष्यबीजाभिव्यक्तिः प्रतिमुखम् । तस्य 'बिन्दुप्रयत्नानुगुण्येन त्रयोदशाङ्गानि प्रयोक्तव्यानि ।
अवान्तरार्थविच्छेदे सति अच्छेदकारगं बिन्दुः ।
फलप्राप्तावतित्वरया व्यापारः प्रयत्नः। त्रयोदशाङ्गानिविलासपरिसर्प "विमानशमनर्मद्युतिप्रगमनविरोधपर्युपासनवज्रपुष्पोपन्यासवर्णसंहाराः। तत्र सम्भोगविषयो मनोरथो विलासः । दृष्टनष्टवीजानुसरणं परिसर्पः। अनिष्टवस्तुविक्षेपो विमतम् । अरत्युपशमनं शमः । परिहासवचनं नर्म। अनुरागोद्घाटनोत्थाप्रीतिः नर्मद्युतिः। 'उत्तरोत्तरवाक्रनुरागप्रकाशनं प्रगमः । छमनाहितागमननिरोधनं विरोधः। इष्टजनानुनयः पर्युपासनम् । निष्ठुरवचनं वज्रम्। अनुरागप्रकाशकशिष्टवचनं पुष्पम् । अनुरागहेतुवाक्यरचनोपन्यासः। चतुर्वर्णनिर्वर्णनं वर्णसंहारः। अत्र परिसर्पप्रगमवज्रोपन्यासपुष्पाणां प्राधान्यम् ।
1 वीजप्रयत्नानुगुण्येन-त 'विधूतम्-(ल) ' विधूतम्-(प्र. रु.) • उत्तरोत्तरवाक्यैरनुरागवीजप्रकाशन प्रगमनम् । (प्र. रु. ना. प्र) 'तत्र-त