________________
नाव्यप्रकरणम
145
त्रिविधम् । प्रख्यातमुत्पाद्यं मिश्रश्चेति । तत्र इतिहासादिनिबन्धनं प्रख्यातम् । कविकल्पितमुत्पाद्यम्। सङ्कीर्ण मिश्रम् । एवमाधिकारिकपताकाप्रकरिकाणां प्रत्येकं प्रख्यातत्वादिरूपेण त्र्यैविध्येन नवविध वस्तु ज्ञेयम् ।
अथ सन्धयो निरूप्यन्ते ।
सन्धिर्नाम-एकेन प्रयोजनेन अन्वितानां कथानाम् अवान्तरप्रयोजनेन सम्बन्धः। सः पञ्चविधः। मुखप्रतिमुखगर्भविमर्शनिर्वहणभेदात् ।
(१) अथ मुखसन्धिः तत्र बीजसमुत्पत्तिः मुखसन्धिः।
स्तोकोद्दिष्टः कार्यहेतुरनेकधा विस्तारि बीजम् । मुखसन्धेरारम्भानुगुण्येन द्वादशाङ्गानि प्रयोक्तव्यानि।
'आरम्भो'नाम भूयसे फललाभाय औत्सुक्यमात्रम् ।
द्वादशाङ्गानि उपक्षेपपरिकरपरिन्यास विलोभनयुक्तिप्राप्तिसमाधानविधानपरिभावनोद्भेदकरणानि ।
बीजन्यास उपक्षेपः। बीजस्य बहूकरणं परिकरः। बीजनिपत्तिः परिन्यासः। बीजगुणवर्णनं विलोभनम् । बीजानुकूलसङ्घट्टनप्रयोजनविचारो युक्तिः। बीजसुखागमः प्राप्तिः। बीजसन्निधानं समाधानम्। वीजसुखदुःखहेतुर्विधानम् । बीजविषयाश्चर्यावेशः परिभावनम् । गूढबीजप्रकाशनमुन्दः। बीजानुगुणप्रोत्साहनं भेदः। बीजानुगुणप्रस्तुतकार्यारम्भः करणम् । तत्र उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमधानान्यावश्यकानि ।
10