SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ 144 अलकारराघवे वर्ण्यम् । मुखनिर्वहणसन्धिद्वयम् । भारतीवृत्तिभूयिष्ठना। १०. अथ ईहामृगः मर्त्यदिव्यनायकसम्पन्नत्वे सति नाव्यप्रधानप्रबन्ध 'ईहामृग इति ईहामंगलक्षणम् । ईहामृगे मिश्रमितिवृत्तम् । चत्वारोऽ| सन्धित्रयम् । दिव्या स्त्रियं. हतुकामौ मर्त्यदिव्यपुरुषो नायको। वधापर्यवसायि युद्धम् । आभासो रसः। का इतिवृत्तम अथ सर्वरूपकोपयोगि इतिवृत्तं निरूप्यते। तत्र इतिवृत्तं नाम प्रबन्धशरीरं वस्तुकथापरपर्यायम् । तत् द्विविधम् । आधिकारिक प्रासङ्गिक. नेति । तत्र अधिकारः फलं तद्वान् अधिकारी। अधिकारेण अधिकारिणा वा निवृत्तमाधिकारिकम् । प्रधानमित्यर्थः। यथा समायणे सीतारामयोः चरित्रम्। प्रसङ्गेन निवृत्तं प्रासङ्गिकम्। अङ्गभूतमित्यर्थः। तद्विविधम् । पताका प्रकरिका चेति । तत्र दूरोनुवर्तिनी कथा पताका । यथा सुग्रीवचरितम् । अव्यापिनी कथा प्रकरिका । यथा जटायुसम्पात्यादिवृत्तान्तः । तत्पुनः 1 मिश्रमीहामृगे वृत्तं चतुरङ्ग त्रिधिकम् । मर्त्य व्यौ च नियमानायकप्रतिनायकोः । धीगेद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुको। अवधं युद्धमन्योन्यमाभासरसयोस्तयोः॥ . (प्रतापरुद्रीये नाट प्रकरणे-५२-५३) • हर्तुका मौ अधिकोद्धतौ मर्त्यदिव्यपुरुषोत
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy