________________
xviii
साहित्यशास्त्रग्रन्थः सुरचितः इत्यपि ज्ञायते । शास्त्रचूडामणिः इति तर्कग्रन्थः विवणोज्ज्जीविनी इति शास्त्रचूडामणिग्रन्थस्य व्याख्यानात्मकः ग्रन्थश्च एतेन कृतः इति अस्य वचनेनैव परिज्ञायते । शास्त्र चूडामणि: गणेशोपाध्यायेन विरचितस्य 'तत्त्वचिन्तामणि' नामक ग्रन्थस्य खण्डनात्मकः प्रन्थः । तदुक्तं प्रन्थकारेणैव अलङ्कारराघवे तत्र तत्र —
१) काव्यप्रकरणे अभिघालक्षणकथनसन्दर्भे ' तस्मात् प्राथमिक व्युत्पत्त्यनुरोधात कार्यान्विते स्वार्थे अभिधेति सिद्धम् । प्रपञ्चस्तु अस्मत्कृते 'तस्वचिन्तामणिखण्डने शास्त्रचूडामणी' द्रष्टव्यः इति ।
......
२) काव्यप्रकरणे लक्षण लक्षण कथनसमये.. शब्दात् व्यापारविशेषं विना संबन्धो लक्षणेत्यपि परमार्थ इत्यपि 'तत्त्वचिन्तामणिकारः' इति चेन्मैवम् । मुख्यतात्पर्यस्यैव वृतित्वोपपतौ शक्तेरप्युच्छेदापत्तिरिति दूषणविस्तरः शास्त्रचूडामणौ द्रष्टव्यः' इति ।
-
......
३) मङ्गलाचरणं युक्तमिति समर्थनसमये उपोद्घातप्रकरणे 'प्रपञ्चस्त्वस्मत्कृतशास्त्र चूडाणिविवरणोज्जीविन्ययोः द्रष्टव्यः' इति ।
-
४) उपोद्घातप्रकरणे अध्ययनविधिरेव अलङ्कारशास्त्रकर्तव्यताबोधकं मूलप्रमाणमवगन्तव्यमिति कथनसमये ' विवरणोज्जीविन्यां तृतीय वर्णके
C
Tanjor at the end of the 17th century. There is Commentary by Sudhindra likewise are Sahityaratnakara' and 'Alankararatnakara' of Yajnanarayana. (Histry of classical Sanskrit Literature by M. Krishnamachari. p. 801 )