________________
140
अलकारराघवे
प्रबन्धो वा 'भाण इति भाणलक्षणम् । भाणे धूर्तविटो नायकः । उत्पाद्यमितिवृत्तम् । वीरशृङ्गारयोस्सूचनामात्र सारताभारतीवृत्तभूयिष्ठः एक एवाङ्कः। मुखनिर्वहणसन्धी द्वावेव।
४. अथ प्रहसनम् हास्यरसप्रधानत्वे सति नाट्यप्रधानः प्रबन्धः पाषण्डतापसप्रभृतिचारित्रवर्णनात्मको 'नाट्यप्रधानः प्रबन्धो वा 'प्रहसनमिति प्रहसनलक्षणम् ।
1 भारतीवृत्तिभूयेष्ठ शौर्यसौभाग्यसंस्तवैः।
सूच्येते वीरभृशारौ विटेन निपुणोक्तिना ॥ कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् । एकोऽको मुखनिर्वाही यत्र बाणः स संमतः ॥
(प्रतापरुद्रीये नाटकप्रकरणे-३६-३७) स रता इति पदं 'त' पुस्तकें नास्ति । 'काव्यप्रधान:-त 'यत्र सन्ध्यवृत्त्यङ्गवर्णन भाणवन्मतम् । हास्यो रसः प्रधान स्याद्भवेत् प्रहसनं हितम् ॥ तत् त्रिविधम् । शुद्धं वैकृतं सङ्कीर्ण चेति । तत्र शुद्धम् पाषण्डविप्रभृति चेटीचेटसमाकुलम् । वेषभाषादिसहित शुद्ध हास्यवचोऽन्वितम् ॥ अथ वैकृतंकामुकादिवचोवेषैः षण्डकच्चुकितापसैः । प्रहासाभिनयप्रायं वैकृतं तत् प्रकीर्यते ॥
अथ सङ्कीर्ण
यद्वीथ्यङ्गैः समाकीर्णैः सङ्कीर्ण धूर्तसङ्कुलम् ।।
(प्रतापरुद्रीये भाटकलक्षण ३९-४१)