________________
138
अलकारराघवे
न च मधुरादिनाट्ये अव्याप्तः। तस्य नाट्यत्वात् । अन्यथा स नृत्यतीति व्यवहाराभावापत्तेः । - अतो निरवध नाट्यलक्षणम् । । नृत्यनृत्योरपि नाटकादेग्नत्वात् लक्षणमुच्यते । आङ्गिकप्रचुरो 'भावविशेषः स्पन्दविशेषो नृत्यम्। ताललयाश्रयस्स्पन्दविशेषो 'नृत्तम् देश्यापरपोयम् । गीत्यादेर्मित्याधायकः कालविशेषस्तालः । लयोऽपि तद्विशेष एवेति नात्र तद्विस्तरः। तदुभयमपि द्विविधम् । लास्य ताण्डवश्चति। मधुरं नृत्यं नृतं च स्यम् । उद्धत तदुभयं ताण्डवम् । नन्वेव तर्हि 'ताण्डवं नटनं नाट्यं लास्यं नृत्तं च नर्तनमिति कोशकारवचनात् नाट्यादीनाम् मभेदप्रतिपत्तिः कथमिति चेन्मैवम् । अवान्तर भेदानालोचनयैरकोशकारवचनं प्रवृत्तमिति न कोऽपि दोषः। तेन नाटयेन दशरूपकाणि भवन्ति । नाटकप्रकरणमाणप्रहसनन्यायोगडिमसमबकारवीथ्य हामृग इति । नाटिकासट्टिकादीनां यथासम्भवमत्रैवान्तर्भाव इति न संख्याधिक्यशङ्कावकाशः।
१. अथ नाटकम् अत्र साङ्गपञ्चसन्धिसम्पनत्वे सति प्रख्यातेतिवृत्तम्बन्धो धीरोदात्तनायकयुक्तो नाट्यप्रधानप्रबन्धो वीरशृङ्गारयोरन्यतरप्रधानत्वे
1 नहि मयूरादिनाटथे- त . भावविषयः-त . (i) अन्यद्भावाश्रयं नृत्य-दशरूपक-१ प्र. ८ श्लो)
(ii) भावाश्रयं तु नृत्यं स्यात्-प्रतापरुद्रीयम् (ना. प्र.) • नृत्त ताललयावन्तिम् (प्र. रु ना. प्र) 'अमरकोश:-नाटयवर्गः • नाटिकासट्टिकारीनां-म