SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ नाट्यप्रकरणम् । 137 द्वितीयेऽप किं यावदवान्तरावस्थानुकरणं विवक्षित किं वा कतिपयावान्त. रावस्थानुकरणम् । नाद्यः । असम्भवापत्तेः। याबदवान्तरावस्थानुकरणस्य कस्याप्यक्यित्वात् । द्वितीयेऽपि सुरताधवान्तरावस्थानुकरणस्थ अनुचितत्वाद सम्भवः । ननु लोकविरुद्धकतिपयावा-तरावस्थानुकरण नाट्यमिति चेन्मैकम् । तथ पिता एता इति दुर्निश्चयत्वेन तदनुकरणस्य अशक्यत्वादसम्भवायत्तेः । ननु नाटकादिप्रवन्धनिरूपिता रामादिनायक'लीलापर्यायावान्तरावस्था सुनिश्चया एवेति नासम्भव इति चेत्तर्हि सिद्ध नाटकादिप्रबन्धे तन्निरूपितावस्थानुकरणरूप. नाट्यसिद्धः। सिद्ध च नाट्ये तत्प्राधान्येन प्रवृत्तनाटकादिसिद्धिरित्यन्यो न्याश्रयप्रसङ्गः। किश्च नृत्ये अतिव्याप्तिः। तस्यापि तादृशावस्थानुकरणरूप. स्वात् । नहि तस्य भावाभिप्रायानिकाभिनयप्राचुर्यमाने तादृशावान्तसवस्थानुकृतिरूपत्वमेवेति। अतो नेदं नाटकलक्षणं युक्तमिति चेत् अत्रोच्यते सात्विकबाहुल्ये सति चतुर्विधामिनयैर्नायकादितादात्म्यापत्तिर्नाव्यमिति नाट्यसामान्यलक्षणम् । न चेदं परिहासकृतस्पन्दविशेषे अतिव्याप्तम्। तस्य लौकिकमनुष्यचेष्टाभिनयमात्रत्वेन तादात्म्यापत्तिरूपत्वाभावात् । न च नृत्येऽतिव्यातिशावकाशः। तस्य सात्विकबाहुल्यरूपस्वामावात् । आदिशब्देन नायकानुवर्तिजनावस्थानुकृतिरूपनाट्येऽव्याशिनिरस्ता। अत एव न नायिकावस्थानुकृतिरूपनदियऽप्यव्याप्तिरिति ध्येयम्। 1 लीलापरपर्याया-ट । नाटयसिद्धिः-त ' भावापरपर्यायाङ्गिकाभिनयप्राचुर्यमात्रे-त • नेदमपि नाटकलक्षणं-त । परिहासकर्तृकरूपन्दविशेषे-त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy