SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अलङ्कारराघवे तृतीयलक्षणस्यायमर्थः । परगतसुखदुःखभावनया भावितान्त:. करणत्वं सत्वम् । तद्भावास्सात्विकाः स्तम्भादयः । अङ्गं हस्तादि । तद्भावा आङ्गिकाः । पूर्वशब्देन वाचिकाहार्याभिनयौ गृह्येते । तत्र पाठ्यापरपर्याय काव्यनाटकादिरूपं वाचिक्रम् । नाट्योचितालङ्कारधारण माहार्य - शब्दार्थः । तथा च सात्विकाकि पूर्वी येषां ते तथोक्ताः चत्वारोऽभिनयाः । मनिमिषनयनत्वादिः सात्विकाभिनयः । पताकाभ्रमरादिः आङ्गिकाभिनयः । गीतरागानुवङ्गादिः वाचिकाभिनयः । अलङ्कारधारणमाहार्याभिनय इति । तर्हि धीरोदात्ताद्यवस्थानुकरणं रसाश्रयं वाक्यार्थीमूतरसविषयं नाट्यमिति न तावदिदं नाट्यसामान्यलक्षणम् । फणिमधुरनाट्यादावव्याप्तेः । न च तन्न नाट्यमेवेति वाच्यम् । 'फणी नटति मयूरो नटतीति व्यवहारे विरोधापत्तेः । न चायं भाक्तः मुख्यबाधकाभावात् ततो यत्प्राधान्येन नाटकादयः प्रबन्धाः प्रवर्तन्ते तस्य नाट्यस्य इदं लक्षणमिति वाच्यम् । तन्न युक्तम् । नायकानुवर्तिजनावस्थानुकृतिरूपनाट्ये अव्याप्तेः । तस्य धीरोदात्तादिनायकावस्थानुकृतिरूपत्वाभावात् । ननु धीरोदात्तादिपदं तदनुवर्तिजलस्याप्युपलक्षणमिति चेत्र । परिवासनकृते लौकिक मनुष्याकरणे चतुर्विधाभिनयजन्येऽतिव्याप्तेः । न च तदपि नाट्यमेवेति नोक्तदोष इति वाच्यम् । तत्र पण्डिनपामराणी नाट्यादिव्यवहाराभावात । प्रत्युत विपरीतव्यवहारस्यैव दर्शनात् । ननु रसाश्रयमित्यनेन तद्व्यावृत्तिरिति चेन्न । तस्यापि ' हास्यरसाश्रयत्वेन तदनति - वृत्तेः । किञ्चावस्थानशब्देन जागरादिमहावस्थाः विवक्ष्यन्ते किं वावान्तरावस्थाः । नाद्यः । जागरादिमहाबस्थानुकरणस्य तच्चमत्कार कारित्वम् 136 1 फणी नटति मयूरो इत्यारभ्य इंद लक्षणमिति वाच्यम् - इति पर्यन्तो भागः 'म' प्रतौ न दृश्यते । 'हासरसाश्रयत्वेन ' 'जागरादि' – इत्यारभ्य नाद्यः -- इति पर्यन्तं 'म' प्रतौ नास्ति । -त
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy