________________
नाव्यप्रकरणम्
135
अथ नाव्यप्रकरणम् अथ नाट्यप्रधानः प्रबन्धा निरूप्यन्ते। तत्रादौ नाट्यस्वरूपं निरूते। ननु तत्र 'नाट्यं दशविधं 'नाट्याभिनयात्मकमिति' शिङ्गभूपालः । 'अवस्थानुकृतिनाव्यमिति' साहित्य चिन्तामणिकारः ।
'चतुर्विधैर भिनयैस्सात्विकाङ्गिकपूर्वकैः।
धीरोदात्ताद्यवस्थानुकृति व्यं रसाश्रयम् ॥ इति विद्यानाथः।
तत्र न तावदाद्य लक्षणं युक्तम् । नाट्यज्ञाने नाट्यज्ञानमित्यात्माश्रयप्रसङ्गात् । ननु दशविधनाट्यशब्देन दशविधनाट्यप्रकरणादिरूपकाण्यु. च्यन्त इति नास्माश्रयदोष इति चेन्मैवम् । रूपकस्यापि नाट्यगर्भत्वात् तद्दोषतादवस्थ्यात् । तदुक्तं रसाणवसुधाकरे ।
तदीदृशरसाधारं नाट्यं रूपकमुच्यत इति । द्वितीयलक्षणमपि न युक्तम् । परिहासकृतलौकिकमनुष्यावस्थानुकरणेऽतिव्याप्तेः। न च नायकावस्थानुकरणं विवक्षितमिति वाच्यम् । प्रागुक्तदुषणानतिवृत्तेः।
(i) तत्र नाट्यं दशविध वाक्यार्थाभिनयात्मकम्
(रसार्णवसुधाकरः-३ विलासः-३) (ii) सात्विकाद्यैरभिनयैः प्रेक्षकाणां बतो भवेत् । ' नटे नायकतादात्म्यबुद्धिस्तनाट्यमुध्यते ॥
___ (रसार्णवसुधाकरः-प्रथमो विलासः-५७) (iii) नटकमैव नाट्यं स्यादिति नाव्यविदों मतम् ॥
(भावप्रकाशः-द्वितीयोऽधिकारः-१५) - (i) रसार्णवसुधाकरः-३ विलासः-१ (ii) तदीदृशरसाधारणं नाट्यं-त