________________
क्षुद्र प्रबन्धभेदनिरूपणम्
129
न चानुत्कलिके 'सार्यावृत्तोदाहरणेऽव्याप्तमिदं लक्षणमिति वाच्यम् ।
मत्रोत्कलिकाशब्दस्यार्योत्कलिका न्यपरत्वात्। कलिकापि सर्वविभक्तिष्वपि चोपक्रमात् द्रष्टव्या। विशेषान्तरं साहित्यचिन्तामणौ द्रष्टव्यम् । 'सम्बोधनविभक्तिप्रचुरत्वे सति आधन्ताशीर्वादघटितत्वे सति चतुर्षोष्टधा वा आवृत्तपद्यमुक्तपदादानमारभ्य गद्ययुक्तप्रवन्धत्वम् चक्रवालत्वम् । आद्यन्तयोनायकनामाकितसाशीर्वादपद्यसम्पन्नत्वे सति चतुरष्टान्यतरभोगोपकरणवर्णनप्राय'भिन्नरीतिकवाक्यस्कन्धपहितसंस्कृतप्राकृतात्मकप्रबन्धो भोगावली।
'नायकबिरुदचिह्नवर्णनाप्रचुरत्वे सति वागारम्बरसंयुक्तप्रबन्धो
वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्वला । वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ॥ सारणां संख्यया पद्यैर्युक्ता तारावली मता।
(पता परुद्रीये काव्यपकरणे क्षुद्राः प्रबन्धाः) ' साध्यवृत्तोदाहरणे-न ' अन्यतरपररत्वात्-त * सम्बोध-विभक्त्या यत् प्रचुरं पद्यपूर्वकम् । विभक्तपुनराकृष्टशब्द स्माच्चक्रवालकम् ॥
(प्रापरुद्रीये काव्यप्रकरणे क्षुद्रप्रबन्धमागे) * भिन्नभिन्नरीतिक-त ' आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यः स्कन्धसमन्विता ॥ प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता । सर्वतो देवशब्दादिरेषा भोगावली मता ॥
(प्रतापरुद्रीये-काव्यप्रकरणे क्षुद्रप्रबन्धनिरूपणावसरे)