SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 126 मलकरराघवे 'तादृशकविकृतक्षुदप्रबन्धादावतिव्याप्तः। क्षुद्रपबन्धनिर्माणदशायामपि कवीनां महत्ता अनपाया। ननु लौकिकानां महाक व्यव्यवहारविषयत्वमेव तत्त्वमिति चेन्मैवम् । ताइयव्यवहारविषयतावच्छेदकसत्वे तस्यैव दुर्जेयत्वात् । अतो महाकाव्यलक्षण दुर्निमाणमिति चेदत्रोच्यते _ 'नगराधष्टादशवस्तुसमुदायपतितकतिपयबहुवस्तुवर्णनाप्रधानप्रबन्धत्वं महाकाव्यत्वमिति काव्यलक्षणम् । न च पुराणेतिहासादौ 'अतिव्याप्तिः । तेषां तणनाप्राधान्येन अप्रवृत्तेः । न च रघुवंशादावव्याप्ति । तस्यापि तत्प्राधान्येनैव प्रवृत्तः। तथानामकरण तु महापुरुषचरित्रनिबन्धरूषस्वेन असत्काव्यताव्यावृत्यर्थम् । मेघसन्देशादेरपि बहुवस्तुवर्णनाप्रधान्ये। प्रवृत्तनोव्याप्तिदोषः। न चोपकाव्येऽतिव्याप्तिशावकाशः। तस्य बहु. वर्णनात्मकत्वासंभवात्। तत्सम्भवे वा तदपि महाकाव्यमेवेत्यलमतिचर्चया। तत्रिविधम् । गधमयं पद्यमयनुभयञ्चेति । अपादपदसङ्घातो गधम्। चतुष्पदं पद्यम् । गद्यकाव्यं कादम्बर्यादि। पद्यकाव्यं रघुवंशास्मत्कृता'टभाषारामायणादि । 1 न तादृश-त ' महतानपायात्-त • दुर्गुणमिति-त • अतिव्याप्ते-त 5 'अष्टभाषारामायणे' नामकं पद्यकाम्यम् । एतत् अमेन ग्रन्थकृता यज्ञेश्वरादी. क्षितेन विरचितमस्ति ।
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy