________________
महाकाव्यप्रबन्धनिरूपणम्
125
'नगरार्क शैलचन्द्रार्कोदयोद्यानजलक्रीडामधुपानरतोत्सवविप्रलम्भविवाहकुमारोदयमन्त्रदूतप्रयाणादिनायकाभ्युदयरूपाष्टादशवस्तुवर्णनात्मकत्वं महाकाव्यत्वमिति आलहारिकसंप्रदा। ननु नेदं महाकाव्य. लक्षणं, मेघसन्देशादावन्याप्तेः । तत्र मष्टाक्वामिकालामावाने चेष्टापत्तिः तत्वेन व्यवहारात् । ननूक्तेषु कतिपयवर्णनात्मकत्वमपि तत्र प्रयोजकमिति
चेन्मैवम् । कतिपयशब्दस्य चित्राबनेकार्थपरत्वेन इयर्णनात्मकत्वं महाकाव्य. मिति निर्णतुमशक्यत्वेन इतरभेदसाधने सनिग्धसिद्धयाफ्तेः । .
ननक्तेषु शक्यवर्णनात्मकत्वं तत्त्वमिति चेन्न। उपकाव्यस्यापि महाकाव्यत्वापत्तेः। एतेन एतेषु कैश्चिन्यूनमपि महाकाव्यमित्यपि निरस्तम् । उपकान्येऽतिव्याप्त्यापत्तेः। किञ्च भागवतमहाभारतादौ पुराणेतिहासा. दावतिव्याप्तिदुर्वार। तत्राप्युक्तेषु शक्यवर्णनात्मकत्वदर्शनात् । ननु उक्तेषु शक्यवस्तुवर्णनाप्रधानप्रबन्धत्वं महाकाव्यत्वमिति न तत्रातिव्याप्तिः । पुराणादेवशमन्वन्तरादिकवनप्रधानत्वादिति चेन। तथापि रघुवंशादावव्याप्तिप्रसमात्। तस्यापि वंशवर्णनप्रधानत्वात् । अन्यथा तथा नामकरणाभावप्रसङ्गात् । मत एव महाकविकृतप्रवन्धो महाकाव्यमिति निरस्तम् ।
1 नगरार्णवशैल चन्द्रार्कोट्यवर्णनम् ।
उद्यानसलिलकीडामधुगानरतोत्सवाः ।। विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् । मन्त्रातप्रयाणानि नायकाभ्युदया अपि ।। एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।।
___ (प्रतापरुद्रीये काव्यप्रकरणे महाकाव्यप्रबन्धप्रकरणम् ) ' शैल चन्द्र।-त • "अतो नेद महाकाव्यलक्षणम्" इत्ययं भागः तथा नामकरणाभावप्रसमात् इत्पनन्तरम् अत एव–इत्येतत्पूर्व–'त' प्रतौ परिहश्यते ॥