________________
122
अलङ्कारराघवे
तुल्यप्राधान्यं यथा
वायव्यास्त्रैरपास्य प्रबलबलरजो वारुणास्त्रेण सिञ्चन् युद्धक्ष्मा पातितारिप्रकटमकुटमारगवल्ली वितन्वन् । पारम्पयशराणां सुनिबिडरुचिरैस्तोरणानि प्रवनन् वीरश्रीपाणिबन्धोधममिव रचयन् पातु वो रामचापः ॥ १२३ ।।
अत्र राम एवं वरः तस्य पानीवियोगनिमितन द्वितीयविवाह कुर्वनिवेति व्यङ्ग्यम् । वाच्येन 'सह प्राधान्यम् । यथा वा
अभयं विभीषणाय प्रददौ रामो भयं दिशास्याय । उभयं निशाचराणां दशकण्ठविभीषणहयातानाम् ॥ १२४ ।। अत्र रामशरणांगतत्राणपरायणः विरोधिसंहारी चेति व्यङ्ग्यं वाच्येन
"सह प्राधान्यम् । असुन्दरं यथा
काकं शाकंभराजास्तनरुधिरकणासक्तपादं प्रयुक्तो .. .. हन्तुं मन्तुं दधानं स्फुटदुरुमहसा सायको नायकेन । विद्या हृद्यां प्रदद्यादनतरतरसा धर्षितं येन भीतं नालं व्यालम्बिशीर्षा हरिहरविधयो रक्षितुं वीशिनु वा ॥ १२५।
-
-
1 सम-त 'सम-त
स्फुरदुरुमहसा-त