SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ध्वनिकाव्यभेदनिरूपणम् 117 निजासुहृदुष्कृतकर्मचोदितैः ___ पिनद्धदेहौ भुजगेन्द्र'साधकैः। उभौ नरेन्द्रौ स्मृतपन्नगान्तको क्षणेन निर्मुक्तशुभौ बभूवतुः ॥ ११२ ॥ अत्र प्रकरणवशात् रामलक्ष्मणवाचकनरेन्द्रशब्देन व्यालपाहिप्रती. तेरुपमा व्यज्यते। तेन ताभ्यां स्वत एव यद्यपि नागपाशबन्धनं मोचयितु शक्यते तथापि लोकोपदेशार्थ गरुडस्मरणं कृतमिति वस्वन्तरं व्यज्यते । तेन च तयोरादिविष्णुरूपत्वं न्यज्यते । संलक्ष्यक्रमशब्दशक्तिमूलवस्तुध्वनिर्यथाकिन्नूपवासैः किमु तीर्थसेकैः किं दानहोमैः किमशेषयोगैः। कृतं व्रतैः किं बहुना कदापि स्मर्तव्य एवामरसार्वभौमः ॥ ॥ ११३ ॥ अत्रामरसार्वभौम इति शब्दशक्त्या प्रकरणबलात् रामचन्द्रप्रतीतिर्जायते । तेन सकलकर्मफलान्यपि कदाचिद्रामचन्द्रस्मरणेनैव सिद्धयन्तीति वस्तु व्यज्यते। तेन च सकलकर्मफलावाप्त्यनन्तरं मोक्षरूपफलमपि सिद्ध्यतीति वस्त्वन्तरं च व्यज्यते । यथा वाविभीषणो रावणसोदरोड तेनावधूतश्शरणं प्रयातः। 1 सायकैः-त : कादाचित्करामचन्द्र
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy