________________
116
अलकारराघवे
कविनिबद्धवक्तप्रौढोक्तिसिद्धार्थशक्तिमूलालङ्कारेण अलङ्कारध्वनिर्यथा
तेजःकोकनदस्य रावणरिपोः पत्रन्ति भागा दिशाम्, अष्टौ काश्चनकर्णिकातिरुचिरं ब्रहाण्डभाण्डं तथा । पारावारसरित्तटाकनिवहाः स्यन्दन्मरन्दन्त्यमी, कुम्भीसम्भवजनुमुख्यमुनयो भृङ्गन्त्यटगङ्गयः ॥ ११० ॥
अत्र रामप्रतापकोकनदस्याष्टौ दिगन्ताः पत्रन्तीत्युपमाभिराश्रयायिणोरनानुगुण्यरूपाधिकालङ्कारो व्यज्यते। कविनिबन्द्ववक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिर्यथा
कोदण्डसायकवस्थितकान्तवक्त्रैः कालाम्बुवाहसदृशः करुणामयाक्षैः । सीतानुजादिसहितधृतदिव्यभूषैरामैस्सुचित्रितमिव प्रथते जगन्मे ॥ १११ ॥
अत्र स्थावरजङ्गमात्मकः प्रपञ्चो रामैश्चित्रितमिवेत्युत्प्रेक्षया रामस्य सर्वान्तर्यामित्वं वस्तु व्यज्यते । एवं प्रबन्धादिगतत्वेऽप्युदाहार्यम् ।
. अथ शब्दशक्तिमूलध्वनिः यथा
तत्र 'संलक्ष्यक्रमशब्दशक्तिमूलालङ्कारध्वनिर्यथा
1 ससंलक्ष्यक्रम-त