________________
114
अलकारराघवे
1
.
अत्र स्वभावोक्त्यलङ्क रेण रामो दुर्जय इति वस्तु व्यज्यते । यथा वास कल्पशाखीविकसत्प्रसूनमालाविलोलभ्रमराक्षनादैः । औदार्यविद्या समधीत्य रामादम्यस्यति स्मेव दिने दिनेऽपि ॥१०५॥
__ अत्र रामादौदार्यविद्यामधीत्य अभ्यस्यति रमेवेत्युप्रेक्षया रामस्य कल्पपादपादप्यधिकमौदार्य वस्तु व्यज्यते। कविप्रौढोक्तसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वनिर्यथाखरारिणा रोषविवर्णदृष्टिना,
प्रयुक्तबाणेन मरुस्थलीकृते । महार्णवे स्नेहवशावशीकृते
समस्तलोकास्सहसा वितत्रसुः ॥ १०६ ॥ अत्र रामबाणेन महार्णवे मरुस्थलीकृते इत्यतिशयोक्त्या सकल. लोकानां रामः सर्वभूतसंहारं करिष्यतीति प्रान्तिय॑ज्यते। कधिनिबद्धवक्तप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा'त्वन्नामधेयात् कलनाभिरामं
दशाननाराममधिष्ठितासौ। विलोकयन्ती बहुमानदृष्टया
कथश्चन प्राणिति राम सीता ॥ १०७ ।।
वनामधेयाकलनाभिराम-त