________________
ध्वनिकाध्यमेदनिरूपणम्
113
तत्कीर्तिसिन्धुपरिममतया न सद्यो ब्रह्माण्डमाण्डमुदितद्रुत'भानमासीत् ॥ १०२ ॥
अत्र रामप्रतापामितप्तमपि ब्रह्माण्डभाडं रामकीर्तिसिन्धुममतथा सद्यो . द्रुतं नासीदिति वस्तुना रामकीर्तितापविभक्योरतस्यविभवत्वं वस्तु यज्यते। कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना अलङ्कारध्वनिर्यथा
तूगीरकोटरक्लिादभिनिष्पतन्तः प्रोद्यन्मुखा झटिति विष्णुपदानुषताः। 'रामेषुकृष्णभुजगा, निजगाद भीमाः प्राणानिलान् पपुरलं पलभोजनानाम् ॥ १०३ ॥
अत्र रामेषुभुजगाः पलाशिना प्रामामिलान् परित्यनेन वस्तुना सपिपासातिशया इवेत्युत्प्रेक्षा व्यज्यते । कविप्रौढोक्तिसिद्धार्थशक्तिमूलालङ्कारेण वस्तुभ्यनिर्यथा
रामोसाबवलम्ब्य भानुजकरं लकामिमामीक्षते सौमित्रिनिकषन् शरान् शरमुखरास्तेऽयमस्याग्रतः । भूयोऽयं प्रदहनिवास्ति हनुमान दृष्टयाग्रहात्रुष्टया लङ्कादुर्गरहस्यमेष लिखति क्षोणौ त्वदीयानुजः ॥ १०४ ॥
1 भावमासीत्त
रामेषुकृष्टभुजग.[--त