________________
110
अलबकारराघवे
अत्यन्ततिरस्कृताविवक्षितवाच्यध्वनिर्यथा'इक्ष्वाकुवंशमयवारिघिसंभवानि वल्मीकजन्मवदनापणविस्तृतानि । उत्कण्ठविग्युवतिकण्ठविभूषगानि राजन्ति रामगुणनिर्मलमौक्तिकानि ॥
अत्र दिनुपतिकण्ठविभूषणानि इत्यत्यन्ततिरस्कृतवाच्यता, रामगुणास्सर्वकषा इति ध्वनिः।
वाक्यगशास्यन्ततिरस्कृताविवक्षितवाच्यध्वनिर्यथाप्रतापलक्ष्मी तिनोति दीपान् बनाति कीतिधवलान्वितानान् । श्रीराम ते शैलबिलो मुनीन्द्रा नितान्तमत्र स्थितिमाचरन्ति ॥
अत्र प्रतापलक्ष्मीर्दीपान् प्रतनोति कीर्तिपबलान्वितानान् बध्नातीत्यन्त. तिरस्कृतवाच्यता। रापकीर्तितापी बिलान्तपर्तिमुनिश्वराणामपि सन्तोष. कराविति ध्वनिर्वाक्यगतः।
अर्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा'रामस्य दौत्यमवलम्ब्य समेतमने पौलस्त्यकर्णपरुषं परिभाषमाणम् ।
--
1 प्रतनोति-त