________________
काव्यनिरूपणम्
103
फालाक्षाभ्यधिकाक्षितीक्ष्णपतनस्साक्षाज्जगद्रक्षकः,
संक्षोभं 'मनसः क्षिणोतु भवतां रामक्षुरप्रोत्करः॥ अर्थचित्रं यथा
पक्षयः पन्नगानामरिरिव विलसच्छल्यनिर्यात काल्या साक्षाद्भावीव वहिर्मरुदिव तरसा गौरवेणेव मेरुः । . आकृत्येवोपनागरशमन इव महामीतिदानेन रेजे
सोऽव्यादव्याजमस्मानमरमय इव प्रोज्वलो रामबाणः ॥ उभयचित्रं यथा
डोलाडोलायमाना समजनि पृथिवी निश्चचालातिवेलं क्षोभं क्षोभं पयोधिर्वपुरतिपरुषं मास्ता भीमवेगा। भासा भासाविनेदुर्दिवि भयमिलितौ वीक्ष्य यं सैष मोदं दद्यादद्याधिक नो दशवदनवधप्रेरितो रामबाणः॥
अत्र छेकानुप्रासश्शब्दचित्रम् । शन्नचित्रातराण्यस्म्ज्जेष्ठपुत्र वेङ्कटेश्वरकविकृतचित्रबन्धरामयणस्थानि शब्दालबारप्रकरणे स्फुटीभविष्यन्ति ।
1 मनसीक्षणं तु भवतां-त 'कान्या-त
३ नैष-त