________________
अलङ्कारराघवे
'ओजः कान्तिगुणविशिष्टा रीतिः गौडीरीतिः । यथा
'राजतजोऽग्निकीलाचदुलपटलसंप्लुष्टपौलस्त्य सौधस्फायत्सौवर्णभस्मक्षपितसुरवधूमूर्तिबन्दीक्षयातिः । लीलामात्रोपनीतौषधिगिरिवरसञ्जीवनी जीविताजी
भ्रश्यत्सौमित्रिजीवो जयति जनभिषक्कोऽपि रामस्य दूतः ॥ "उभयात्मिका पाञ्चालीरीतिः। यथा
'मनोहरदयादृष्टिर्मन्दहासलसन्मुखः ।
मङ्गलाय सदा देवो मैथिलीजानिरस्तु मे ॥ यथा वा
'प्रणतविबुधमौलिस्कारहारालितेजः प्रविमलजलधौते यस्य पादारविन्दे । विरचयति विचित्रं सज्जकोदण्डपाणिस्सततमखिलभक्तावासरक्षा स रामः ॥
1 (i) ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते ।
(प्र. रु. का. प्र. २९) (ii) अतिवीर्घसमासयुता बहुलवणैर्युता महाप्राणैः। कठिणा सा गौडीयेत्युका तद्देशबुधमनोज्ञत्वात् ।।
(र. सु. प्र. बि. २३९) ' (i) पाचाली रीति दीगोडीरि युभयात्मिका ॥ (प्र. रु. का. प्र. ३२) (ii) यत्रोभयगुणग्रामसन्निवेशस्तुलाधृतः । सा मिश्रा सैव पाञ्चालीत्युक्ता तद्देशजप्रिया ॥
.. (र. सु. प्र. वि. २४०)