________________
शय्यानिरूपणम्
अथ शय्या निरूप्यते 'पदानामुत्कृष्टान्योन्यमैत्री शय्या। न चेयं रीताव अन्तर्भवतीति वाच्यम् । रीतौ पदसम्बन्धस्य विनिमयसम्भवात् । शय्यायां तु तदसम्भवेन ततो भेदसम्भवात् । यथा
'रामाविवक्ष्य, मुनिनेति विवर्ण्यमानाप्यामोदमानहृदयो हतवैरिमानः। भीमायुधस्य भृशमानमनेन वाञ्छत् जामातृतां जनकधाम जगाम रामः ॥' यथा वा'विदेहहन् ... ... ... ... तृष्णोदय निरन्तरमुदावहं प्रबलसर्वजाड्यापहम् । पुरन्दरचतुर्मुखप्रमुखदेवतादुर्लभ पिबन्तु रसिका जना जगति रामनामामृतम् ।
। अथ पाको निरूप्यते अर्थगाम्भीर्य पाकः। स बहुविधः। द्राक्षापाकनालिकेरपाककदलीपाकादिभेदात् । बहिरन्तरस्फुरद्रसः द्राक्षापाकः ।
-
1 या पदामां परान्योन्यमैत्री शय्येति कथ्यते ॥ (प्र. रु. का. प्र. ३४) . जितवैरिमान:-त ' अर्थगम्भीरिमा पाकः स द्विधा हृदयंगमः । द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥ (प्र. रु. का. प्र. ३५)